________________
१०७
आत्मपरीक्षा सामान्येन तु पारार्थ्यं यद्येषां सम्प्रसाध्यते।
तथापि साधनं व्यर्थं सिद्धाश्चित्तोपयोगिनः॥३१०॥ अथ सामान्येनाधेयातिशयादिविकल्पमपास्य पारार्थ्यमात्रं साध्यत इति तृतीयः पक्षः तदापि सिद्धसाध्यता; चित्तोपकारित्वेन चक्षुरादीनामिष्टत्वात्। अथ चित्तमपि साध्यधर्मित्वेनाभ्युपगम्यते, यथा नैयायिकैरभ्युपगतम् ? एवमपि भवतां नेष्टसिद्धिः; चित्तव्यतिरेकेणाऽऽत्मनोऽनिष्टत्वात् ! पारावारवदापेक्षिकत्वात् परत्वस्य। चित्तस्य चानेककारणकृतोपकारोपग्रहेणोत्पत्तेः सङ्घातत्वं कल्पितमस्त्येवेति हेतोरपि न सिद्धिः ॥ ३१०॥
इति कापिलपरिकल्पितात्मपरीक्षा॥
४. दिगम्बरपरिकल्पितात्मपरीक्षा दिगम्बरपरिकल्पितात्मप्रतिषेधार्थमाह
[G.118] जैमिनीया इव प्राहु नाश्चिल्लक्षणं नरम्।
द्रव्यपर्यारूपेण व्यावृत्त्यनुगमात्मकम्॥३११॥ जैनाइति दिगम्बराः । त एवं प्राहुः-चिल्लक्षण एवात्मा, स च द्रव्यरूपेण सर्वावस्थास्वभिन्नत्वादनुगमात्मकः, पर्यायरूपेण तु प्रत्यवस्थं भिन्नत्वाव्यावृत्त्यात्मकः । एतच्च प्रत्यक्षत एव सिद्धमात्मनो द्वैरूप्यमिति न प्रमाणान्तरतः प्रसाध्यम्। तथा हि-सुखाद्यवस्थाभेदेऽपि यदवस्थातृ सर्वावस्थासु चैतन्यमुपलभ्यते तद् द्रव्यम्। पर्यायास्तु क्रमभाविनः सुखाद्यवस्थाभेदाः; ते च प्रत्यक्षत एवं सिद्धा इति परस्य भावः ॥ ३११ ॥
तत्रापीत्यादिना प्रतिविधत्ते___. तत्राप्यविकृतं द्रव्यं पर्यायैर्यदि सङ्गतम्। . . . न विशेषोऽस्ति तस्येति परिणामि न तद्भवेत्॥ ३१२॥
अत्र पक्षद्वयम्-यत्तच्चैतन्यात्मकं द्रव्यं तत्पर्यायैः सम्बध्यमानं कदाचिदविकृतमत्यक्तपौरस्त्यचैतन्यादिरूपं सत् सम्बध्यते, यद्वा परित्यक्तपूर्वरूपम् । तत्र यदयनन्तरः पक्षः, तदा नित्यत्वहानिप्रसङ्गः; अवस्थातुः कस्यचिदप्यभावात्। अथाविकृतमिति प्रथमपक्षः, तदा पूर्वोत्तरयोरवस्थयोर्न विशेष: अन्यथात्वम् अस्तीति परिणामि तच्चैतन्यं न भवेत् =न प्राप्नोति; अन्यथालक्षणत्वात् परिणामस्य । इष्टं च परिणामि। प्रयोगः-यत्पूर्वोत्तरावस्थासु न विशिष्यते तत्परिणामि न भवति, यथा-आकाशम्।न विशिष्यते च चैतन्यं सर्वावस्थास्विति व्यापकानुपलब्धेः ॥ ३१२॥ । देशकालस्वभावानामित्यादिना हेतोः परमतेनासिद्धिमाशङ्कते
देशकालस्वभावानामभेदादेकतोच्यते । सङ्ख्यालक्षणसंज्ञार्थभेदाद् भेदस्तु वर्ण्यते॥३१३॥
२. दिगम्बरस्येत्यर्थः।
१. नासिद्धि:-पा०।