________________
१०६
- तत्त्वसंग्रहे प्रतिनियतेभ्यः कादाचित्केभ्यः स्वहेतुप्रत्ययेभ्यः समुत्पद्यते। तच्चोत्पन्नं सद् वत्सविवृद्धेनिमित्ततां यातीत्यज्ञमपि प्रवर्त्तत इति निर्दिश्यते। न चैवं प्रधानस्य प्रवृत्तिर्युक्ता। तथा हिनित्यत्वात् तदन्यहेत्वभावाच्च न तावत् कादाचित्ककारणसन्निधानायत्ता तस्य कादाचित्की शक्तिर्युक्ता। नापि स्वाभाविकी, सदा सन्निहिताविकलकारणत्वेन सर्वस्याभ्युदयनिःश्रेयसलक्षणस्य पुरुषार्थस्य युगपदुत्पत्तिप्रसङ्गात् ॥ ३०४॥ अथापि स्याद्-भवतु बुद्धिचैतन्ययोरभेदः, तथाप्यात्मत्वमस्याप्रतिषिद्धमेव? इत्याह
चैतन्ये चात्मशब्दस्य निवेशेऽपि न नः क्षतिः। नित्यत्वं तस्य 'दुःसाधमक्ष्यादेः सफलत्वतः॥३०५॥ अक्ष्यार्थादयफलं तु स्याच्चैतन्यं शाश्वतं यदि। ..
न भवेदिन्धनेनार्थो यदि स्याच्छाश्वतोऽनलः॥३०६॥ न ह्यात्मशब्दनिवेशनमात्रमस्माभिश्चैतन्ये प्रतिषिध्यते, किं तर्हि ? यस्तत्र नित्यत्वलक्षणः समारोपितो धर्मः स निषिध्यते । कस्मात् ? अक्ष्यालोकमनस्कारादेः साफल्यात् ।
अन्यथा यदि शाश्वतं नित्यं चैतन्यं स्यात्, तदाऽक्ष्यादि विफलमेव स्यात्; तदुत्पत्त्यर्थत्वात् 'तेषाम्, नित्यस्य चोपत्यत्त्यसम्भवात्।
अत्रैव दृष्टान्तमाह- न भवेदित्यादि। यदि शाश्वतो वह्निर्भवेत् तदा नैव जनोऽनलार्थमिन्धनमुपाददीत। तस्मान्न नित्यैकरूपं चैतन्यं युक्तम् ॥ ३०५-३०६॥
यच्चोक्तम्- "यत् सङ्घातरूपं तत् परार्थं दृष्टम्" ( ) इत्यादि, तत्र कोऽसौ परोऽभिपेतः? इति निरूपयन्नाह
पारार्थ्यं चक्षुरादीनां यत् पुनः प्रतिपाद्यते। शय्याशनादिवत् तेन सङ्घातत्वेन हेतुना॥३०७॥ आधेयातिशयार्थत्वं यद्येषामुपमाद्यते।
इष्टसिद्धिर्यदिष्टास्तेऽस्माभिर्ज्ञानोपकारिणः ॥ ३०८॥ [G.117] आधेयातिशयो वा परोऽभिप्रेतो भवेत्, यद्वा अनाधेयातिशयरूपत्वादविकारी, अथ वा सामान्येन पारार्थ्यमात्रमविचारितरमणीयं साध्यते-इति त्रयो विकल्पाः । तत्र प्रथमपक्षे सिद्धसाध्यता; यतस्ते चक्षुरादयोऽस्माभिर्विज्ञानोपकारिण इष्टाः । "चक्षुः प्रतीत्य रूपाणि चोत्पद्यते तच्चक्षुर्विज्ञानम्, यावत्कायं प्रतीत्य स्प्रष्टव्यानि 'चोत्पद्यते कायविज्ञानम्" (
) इति वचनात् ।। ३०७-३०८॥ अथ द्वितीयः पक्षः; तदा विरुद्धता हेतोरित्यादर्शयन्नाह
अविकार्युपकारित्वसाधने साध्यशून्यता।
दृष्टान्तस्य चलस्यैव युक्तास्तेऽप्युपकारिणः ॥३०९॥ अविकारिणः नित्यस्योपकारित्वम् अविकार्युपकारित्वम् । तस्य चक्षुरादीनां साधने सति दृष्टान्ते साध्यविपर्ययेणैव हेतोाप्तत्वाद्विरुद्धता; यतस्ते शयनादयश्चलस्यानित्यस्यैवो पकारिणो युक्ताः, अविकारिण्यतिशयस्याधातुमशक्यत्वात् ॥ ३०९॥ १. दुःसाध्यम्- पा०, गा०।
२. त्योत्पद्यते-पा०।