________________
आत्मपरीक्षा
संवित्तिश्चेतना चेति सर्वं चैतन्यवाचकम् ॥ ३०२ ॥
सर्वमिति । दिदृक्षाद्यानुकूल्येन प्रवर्त्तनम् । अस्येति प्रधानस्य । एतदुक्तं भवतियदि नाम प्रधानं चिद्रूपं न भवति, तथापि बुद्ध्याऽध्यवसायलक्षणया युक्तत्वात् पुरुषगतं दिदृक्षादि परिज्ञाय प्रवर्त्तिष्यत इत्यतः सर्वमविरोधीति ? अत्रोत्तरमाह - बुद्धिमत्त्वेनेत्यादि । यदि हि प्रधानस्य बुद्धिमत्त्वमङ्गीक्रियते, तदास्य पुरुषवच्चैतन्यवत्त्वप्रसङ्गः; बुद्ध्यादीनां चैतन्य-पर्यायत्वात् । तथा हि- यत्प्रकाशात्मतया स्वसंविदितरूपं परनिरपेक्षमेव प्रकाशते, तच्चैतन्य - मुच्यते, तत्त्वं बुद्धेरप्यस्तीति किमिति सा चिद्रूपा न भवेत् ! न चापि बुद्धिव्यतिरेकेणापरं चिद्रूपमुपलक्षयामः, येन तद्व्यतिरिक्तस्य पुरुषस्य सिद्धिर्भवेत् ॥ ३०१
३०२ ॥
अत्र परश्चिदूपाद् बुद्धेर्भेदप्रसाधनायाह
-
१०५
अचेतनात्मिका बुद्धिः शब्दगन्धरसादिवत् ।
उत्पत्तिमत्त्वनाशित्वहेतुभ्यामिति चेन्मतम् ? ॥ ३०३ ॥
प्रयोगः - यद्यदुत्पत्तिमत्त्वनाशित्वादिधर्मयोगि, तत्तदचेतनम्; यथा रसादयः । तथा बुद्धिरिति स्वभावहेतुः ॥ ३०३ ॥
नैतावित्यादिना प्रतिवधत्ते
नैतो हेतू द्वयोः सिद्धौ स्वतन्त्रे साधने मते ।
न विपर्ययबाधाऽस्ति प्रसङ्गोऽप्यभिधित्सिते ॥ ३०४॥
कदाचिदिदं स्वातन्त्र्येण साधनं स्यात् ? प्रसङ्गसाधनं वा ? यदि स्वातन्त्र्येण, तदाऽन्यतरासिद्धो हेतुः । तथा हि-यथाविधमुत्पत्तिमत्त्वंमपूर्वोत्पादलक्षणं नाशित्वं वा अत्यन्तसमुच्छेदात्मकं बौद्धस्य प्रसिद्धम्, न तथाविधं भवतः साङ्ख्यस्य; तयोः परिणाम- [G.116] तिरोधानरूपत्वेन भवद्भिरङ्गीकरणात् । यथा च भवतः, तथा न बौद्धस्य सिद्धमित्यन्यतरासिद्धो हेतुः । न च शब्दमात्रस्य सिद्धौ हेतुसिद्धिः, वस्तुनो हि वस्तुसिद्धेर्वस्तुन एव हेतुत्वात् । यथोक्तम्—
"तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि । दोषवत् साधनं ज्ञेयं वस्तुनो वस्तुसिद्धितः”॥
(प्र० वा० १.२२) इति । अथ प्रसङ्गसाधनमिति पक्षः; तथापि साध्यविपर्यये बाधकप्रमाणानुपदर्शनादैकान्तिकता हेत्वोः । को ह्यत्र प्रतिबन्धो यच्चैतन्यस्योत्पत्तिमत्त्वनाशित्वाभ्यां न भवितव्यमिति !
याऽपीयं कल्पना
" वत्सविवृद्धिनिमित्तं क्षीरस्य तथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य' ||
11
(सां० का० ५७) इति । साऽप्यकल्पनैव; न हि क्षीरं स्वातन्त्र्येण वत्सविवृद्धिनिमित्तं प्रवर्त्तते, किं तर्हि ? १. 'बुद्धिमत्व' इत्यादि- जै० ।