________________
तत्त्वसंग्रहे
न जहाति स्वरूपं तु पुरुषोऽयं कदाचन ? ॥ २९७ ॥
न हि विकारापत्त्या भोक्ततृत्वमस्येष्टम्, किं तर्हि ? 'बुद्ध्यध्यवसितस्यार्थस्य प्रतिबिम्बोदयन्यायेन चेतनात् । तथा हि- बुद्धिदर्पणारूढमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंसि संक्रामति, तदेवास्य भोक्तृत्वम्; न तु विकारापत्तिः । न च प्रतिबिम्बमात्र संक्रान्तावपि पुरुष: स्वरूपं जहाति दर्पणवत्तदवस्थत्वात् । अतो यदभोक्त्रवस्थानिर्विशिष्टम्" इत्यत्र प्रयोगेऽनैकान्तिकता हेतोः ॥ २९६-२९७ ॥
१०४
उच्यत इत्यादिना प्रतिविधत्ते
उच्यते प्रतिबिम्बस्य तादात्म्येन समुद्भवे । तदेवोदययोगित्वं विभेदे तु न भोक्तृता ॥ २९८ ॥
यत्तद् बुद्धिदर्पणारूढमर्थप्रतिबिम्मकं द्वितीयदर्पणकल्पे पुंसि संक्रामतीतीष्यते, तद्यदि पुरुषाद्रव्यतिरिक्तम्,तदा तदेवानन्तरोक्तमुदयव्यययोगित्वं प्रसज्यते; उदयव्यययोगिप्रतिबिम्बरूपवत्तदव्यतिरेकात् । अथ व्यतिरिक्तमिति पक्षः, तदा भोक्तृता न प्राप्नोति; अभोक्त्रवस्थातो विशेषस्य कस्यचिदभावात् । न चाप्यर्थप्रतिबिम्बेन सह पुंसः सम्बन्धाद् भोक्तृत्वं युक्तम्; परस्परमनुपकारकयोः सम्बन्धासिद्धेः ॥ २९८ ॥
दिदृक्षाद्यानुकूल्येन प्रधानं सम्प्रवर्त्तते ।
विचित्ररचनाभेदे कथं वाऽचेतनात्मकम्! ॥ २९९॥
किञ्च - यदि प्रधानं पुरुषस्य दिदृक्षादि जानीयात्; तदा तदानुकूल्येन तस्य पुरुषार्थ ' प्रति प्रवृत्तिर्युक्ता यावता जडरूपत्वात् सत्यपि चेतनावता सम्बन्धे पड्वन्धवत् प्रवृत्तिर्न युक्ता । तथा हि- अन्धो यदि नाम मार्गं नोपलभते, तथाऽप्यसौ पङ्गोर्विवक्षां चेतयत्येव; तस्य चेतनावत्त्वात् । न चैवं प्रधानं पुरुषस्य दिदृक्षादि वेत्ति; तस्याचेतनात्मकत्वेन जडरूपत्वात् । न चापि तयोः परस्परमनुपकारिणोः पवन्धवत् संम्बन्धोऽस्ति ॥ २९९ ॥
कर्तुं नाम प्रजानाति प्रधानं व्यञ्जनादिकम् ।
भोक्तुं च न विजानाति किमयुक्तमतः परम् ॥ ३००॥
[G.115] अथ ‘पुरुषस्य दिदृक्षादि वेत्ति प्रधानम्' इतीष्यते, तथा च सति भोक्तृत्वमप्यस्य प्रसज्येत। यो हि नाम कर्तुं विजानाति स कथं भोक्तुमपि न जानीयात् ! तस्मात् 'कर्तुं जानाति न भोक्तुम्' इत्यतः परं किमयुक्तमस्ति ! नैव किञ्चिदित्यर्थः । न हि सूपकारो व्यञ्जनादेः कर्त्ता तद्भक्तुं न विजानातीति । अत्रेतिशब्दोऽध्याहार्यः ॥ ३०० ॥ बुद्धिमत्त्वादित्यादिना परस्योत्तरमाशङ्कते -
1
बुद्धिमत्त्वात् प्रधानस्य सर्वमस्याविरोधि चेत् ।
बुद्धिमत्त्वेन तु प्राप्तं चैतन्यं पुरुषेष्विव ॥ ३०१ ॥ बुद्धिरध्यवसायो हि संवित् संवेदनं तथा ।
१. बुद्धयवसित- पाल, गाए ।
३. गा० संस्करणसम्पादकोऽत्र 'तदभोक्तृ' इत्यधिकं पाठं वाञ्छति । ४. पा. गा० पुस्तकयोर्नास्ति ।
२. पा० गा० पुस्तकयोर्नास्ति ।
५. पुरुषस्यार्थं - पा. गा।