________________
आत्मपरीक्षा
[G.113] यद्यपि पुरुषः कर्मणां कर्त्ता न भवति, तथापि प्रकृतिरस्य यथाभिलषितमर्थमुपनयति, तमसौ भुङ्क इत्यदोषः।
ननु प्रकृतिरचेतना सती कथं शुभादिकर्मणां कर्त्री भवति, येनासौ यथाभिमतं कर्मफलं पुरुषस्य सम्पादयत्नि? इत्याह- पङ्ग्वन्धवद्धीत्यादि । यथा किलान्धस्य चक्षुष्मत्पुरुषसम्बन्धादर्थेषु प्रवृत्तिर्भवति, तथा महदादिकं लिङ्गं चेतनपुरुषसम्पर्काच्चेतनावदिव धर्मादिषु कार्येष्वध्यवसायं करोतीत्यदोषः । तथा चोक्तम्
" पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः”॥
यद्येवमित्यादिना प्रतिविधत्ते
(सां० का ० २१) इति ॥ २९२ ॥
यद्येवमिष्टवाञ्छायां सत्यामपि न सिध्यति । किमिति प्रकृतिर्नैव किञ्चिदन्यदपेक्षते ॥ २९३ ॥
१०३
यदि हि प्रकृतिरकृतस्यापि कर्मणः फलमभिलषितमुपनयतीति स्यात्, तदा सर्वदैवेष्टवाञ्छायां सर्वस्य पुंसोऽभिलषितोऽर्थः किमिति न सिध्येत् ! स्यान्मतम्-तत्कारणस्य धर्मस्याभावान्न सिध्यतीति ? आह- प्रकृतिर्नैवेत्यादि । प्रकृतेर्हि धर्मः कार्यम्, स च तदव्यतिरिक्तत्वात् सदैवास्तीति भवेदेवाभिमतं फलम् । तथा हि- एतदेव सर्वं यदुत प्रकृतिपुरुषौ, तौ च सदा सन्निहिताविति, अतो नित्यमेव फलं भवेत् । किञ्च - यद्यभिलषितमर्थं प्रकृतिः प्रयच्छति, तदाऽनिष्टं किमिति प्रयच्छेत्, न ह्यनिष्टं कश्चिदभिलषति॥ २९३॥
अपि च- यदि नाम प्रकृतिरस्यार्थमुपनयत्ति, तथापि भोक्तृत्वमस्यायुक्तम्; अविकारित्वात् ? इति दर्शयति-
अर्थोपभोगकाले च यदि नैवास्य विक्रिया ।
. नैव भोक्तृत्वमस्य स्यात् प्रकृतिश्चोपकारिणी ॥ २९४ ॥ विक्रियायाश्च सद्भावे नित्यत्वमवहीयते ।
अन्यथात्वं विकारो हि तादवस्थ्ये च तत्कथम्! ॥ २९५ ॥
यदि हि सुखदुःखादिनाऽऽह्लादपरितापादिरूपां विकृतिं नोपनीयते, तदाऽऽकाशवदभोक्तृत्वमेव स्यात्, प्रकृतिश्चोपकारिणी न स्यादिति सम्बन्धः; अविकृतात्मन्युपकारस्य कर्तुमशक्यत्वात् । अथ विकारित्वमस्याभ्युपगम्यते, तदा नित्यत्वहानिप्रसङ्गः; यतोऽतादवस्थ्यमेवानित्यतां ब्रूमः । तच्च विकारित्वे सत्यस्तीति कथमस्य नित्यता स्यात्; तादवस्थ्यरूपत्वान्नित्यत्वस्य ! ॥ २९४-२९५ ॥
[G.114] स्यान्मतमित्यादिना परमतेनान्यथा भोक्तृत्वमाशङ्कते— स्यान्मतम् - विषयाकारा बुद्धिरादौ विवर्त्तते ।
तथा व्यवसितं चार्थं पुरुषः प्रतिपद्यते ॥ २९६ ॥ प्रतिबिम्बोदयद्वारा चैवमस्योपभोक्तृता ।