________________
१०२
तत्त्वसंग्रहे तत्रापीत्यादिना प्रतिज्ञार्थं तावद् दूषयति
तत्रापि रूपशब्दादिचेतसां वेद्यते कथम्।
सुव्यक्तं भेदवद् रूपमेका चेच्चेतनेष्यते॥२८७॥ तथा हि-'चैतन्यं पुरुषस्य निजं रूपम्' ( ) इति ब्रुवता चैतन्यं नित्यैकरूपमिति प्रतिज्ञातं भवति; नित्यैकरूपात् पुरुषात्तस्याव्यतिरिक्तत्वात्। एतच्च प्रत्यक्षविरुद्धम्; यतो रूपशब्दादिचेतसां सुव्यक्तम्-स्फुटतरमेव, स्वसंविदा, भेदवद्रूपम्=भिन्नस्वभावः, वेद्यते। तच्चैकत्वे सति चेतनाया नोपपद्यते ॥ २८७॥ __ अभ्युपगमविरोधं च दर्शयन्नाह
एकरूपे च चैतन्ये सर्वकालमवस्थिते। . .
नानाविधार्थभोक्तृत्वं कथं नामोपपद्यते॥२८८॥ [G.112] एकरूपश्चात्मा, अथ च नानाविधस्यार्थस्य भोक्ता- इति परस्परविरुद्धम्; अभोक्त्रवस्थानिर्विशिष्टत्वात् ॥ २८८ ॥ दिदृक्षादियोगादविरोध इति चेद्? आह- . .
न दिदृक्षादयो भिन्नास्तस्य भोगनिबन्धनम्। . । भवन्ति हि तथा भाबे पुमानुत्पत्तिमान् भवेत्॥२८९॥. यदि रूपादिषु दिदृक्षाशुश्रूषादयस्तस्य परस्परतो भिन्नाः=भोगनिबन्धत्वेनोपकल्पिताः, तेऽप्यस्यात्मनो न भवन्ति न जायन्ते। यदि हि जाये(स्तंदा, तथा भेदेन, भावेजातौ सत्याम्, पुमानुत्पत्तिमान् भवेत्; दिदृक्षादिवत्तदव्यतिरेकात् ॥ २८९॥ एतदेव व्यक्तीकुर्वनाह
चैतन्यव्यतिरिक्तं हि न दिदृक्षादि विद्यते।
तस्योदयव्ययावेशे दुर्वारः पुरुषेऽप्यसौ॥२९०॥ व्यतिरेके हि तस्य त इति सम्बन्धानुपपत्तिः; उपकारस्य सम्बन्धनिबन्धनस्याभावात्। असविति उदयव्ययसमावेशः। प्रयोगः-यस्य 'यद्भावव्यवस्थानिबन्धनं नास्ति, नासौ प्रेक्षवता तद्भावेन व्यवस्थाप्यः, यथा-आकाशं मूर्त्तत्वेन । नास्ति च भोक्तृव्यवस्थानिबन्धनं पुरुषस्य दिदृक्षादीति कारणानुपलब्धेः । न चायमसिद्धो हेतुरिति प्रतिपादितम् ॥ २९० ॥ इतश्च कर्तृत्वाभावाद् भोक्तृत्वमपि तस्य न युक्तमिति दर्शयति
शुभाशुभं च कर्मास्ति नैव चेदात्मना कृतम्।
तदेष भोगभेदोऽस्य कुतः समुपजायते!॥२९१॥ न ह्यकृतस्य कर्मणः कश्चित्फलमुपभुंक्ते, अकृताभ्यागमादिदोष प्रसङ्गात् ॥२९१ ॥ अत्र परस्योत्तरमाशङ्कते
अभिलाषानुरूपेण प्रकृतिश्चेत् त्प्रयच्छति। - पंग्वन्धवद्धि सम्बन्धस्तयोरेष व्यवस्थितः॥२९२॥ १ सद्भावल-पा०. गा०। २२. पुरुषादिदृ०- पा०: पुरुष दिदृ- गा० ।