________________
आत्मपरीक्षा
१०१ पीश्वरादिर्जगतः कर्ता प्रतिषिद्ध एव। वासनामात्रभावाच्चेति मात्रग्रहणं तथाभूतालम्बनार्थव्यच्छेदार्थम्। तस्मादहङ्कारस्य निरालम्बनत्वान्न तद्ग्राह्यो ज्ञाता कश्चित् प्रसिद्धोऽस्तीति न तस्मादात्मा सिध्यतीति ॥ २८२ ॥ यच्च "व्यतीताहंकृतिमा॑ह्यः" (तत्त्व० २३८) इत्यादिनित्यसाधनमुक्तम्, तत्राह
तन्नाहम्प्रत्ययग्राह्ये ज्ञाता कश्चन विद्यते॥२८३॥ ततः सर्वप्रमाणेषु न दृष्टान्तोऽस्ति सिद्धिभाक्।
हेतवश्चाश्रयासिद्धा यथायोगमुदाहृताः ॥२८४॥ कश्चनेति । नित्योऽनित्यो वा ज्ञाता दृष्टान्तधर्मी नास्तीत्यसिद्धो दृष्टान्तः । तथा हिप्रथमद्वितीययोः प्रयोगयोर्धर्म्यसिद्धिर्दृष्टान्तदोषः; इदानीन्तनस्य ह्यस्तनस्य चाहम्प्रत्ययगम्यस्य ज्ञातुः कस्यचिदभावात् । तृतीये तु प्रयोग एकबुद्धिवदिति दृष्टान्तः साध्यसाधनविकलः; अभिमताया एकबुद्धेरेकसन्तानसम्बद्धज्ञात्रहम्प्रत्ययत्वस्य एकविषयत्वस्य [G.111] चासिद्धत्वात् । अतो धर्मद्वयासिद्धिमुखेनास्याप्यसिद्धत्वमुक्तम्।।
यथायोगमुदाहृताइति । उदाहता: पूर्वमुपन्यस्ता ये हेतवः. यथायोगम्= यथासम्भवम्। आश्रयासिद्धइति । तथा हि-प्रथमद्वितीययोः प्रयोगयोर्ये हेतवस्त आश्रयसिद्धाः; अहम्प्रत्ययग्राह्यस्य कस्यचिदपि धर्मिणो ज्ञातुरसिद्धत्वात्। तृतीये तु प्रयोगे नाश्रयासिद्धिः, प्रत्ययानां धर्मिणां सिद्धत्वात्। किन्तु तेषामेकसन्तानसम्बद्धज्ञातृविशेषणमसिद्धम्, निरालम्बनत्वस्य प्रसिद्धत्वात्। अतो यथायोगमित्युक्तम्।। २८३-२८४ ॥
... इति मीमांसकंपरिकल्पितात्मपरीक्षा॥
. ३. कापिलपरिकल्पितात्मपरीक्षा साम्प्रतं साङ्ख्यपरिकल्पितात्मनिराकरणार्थमाह
चैतन्यमन्ये मन्यन्ते भिन्नं बुद्धिस्वरूपतः। आत्मनश्च निजं रूपं चैतन्यं कल्पयन्ति ते॥२८५॥
प्रधानेनोपनीतं च फलं भुंक्ते स केवलम्। - कर्तृत्वं नैव तस्यास्ति प्रकृतेरेव तन्मतम्॥ २८६॥
अन्य इति । साङ्ख्याः । ते हि बुद्धिव्यतिरिक्तं चैतन्यमात्मनो निजं रूपं कल्पयन्ति; यतः "बुद्धिः प्रधानस्वभावा, चैतन्यं तु पुरुषस्यैव स्वरूपम्" ( ) इति तेषां समयः । स च पुरुषः शुभाशुभकर्मफलस्य प्रधानोपनीतस्य भोक्ता, न तु कर्मणां कर्ता; प्रकृतेरेवाशेषजगत्परिणतिरूपायाः कर्तृत्वस्येष्टत्वात्। अत्र च प्रमाणयन्ति यत्सङ्घातरूपं वस्तु तत्परार्थं दृष्टम्, तद्यथा-नयनाद्यङ्गादि । सङ्घातरूपाश्च चक्षुरादय इति स्वभावहेतुः। यश्चासौ परः स सामर्थ्यादात्मेति सिद्धम्- इति परस्य भावः ॥ २८५-२८६ ॥ १. सिद्धान्त इत्यर्थः। २. शयनानि-पा०, गा० ।
३. साङ्यस्येत्यर्थः।