________________
१००
तत्त्वसंग्रहे सकृदेव प्रसूयेरन् शक्तहेतुव्यवस्थितेः॥ २७८॥ तथा ह्यस्यालम्बनं भवन्नित्यं वा भवेद्? अनित्यं वा? यदि नित्यम्, तदा सर्वा अहड्कृतयः=अहङ्कारा युगपद्भवेयुः; अविकलकारणत्वात्। न ह्यकारणमालम्बनं युक्तम्; अतिप्रसङ्गात्। न चापि शक्तस्य कारणस्य सहकारिकारणापेक्षा भवतीत्यसकृच्चर्वितमेतत्।
न चाप्येक एवायमहङ्कार इति शक्यं वक्तुम्; कादाचित्कतयाऽनेकत्वसिद्धेः । तथा हि-गाढस्वापमदमूर्छासु नाहङ्कारः संवेद्यते, पुनरन्यदा च संवेद्यत इति सिद्धमस्य सर्वदाऽनुपलम्भात् कादाचित्कत्वम्।कादाचित्कत्वाच्चानेकत्वमपि सिद्धमिति सर्वा अहङ्कृतयस्तद्भावमात्रभाविन्यो युगपत् प्रसूयेरन् ॥ २७८॥
अनित्यालम्बनत्वेऽपि स्पष्टाभाः स्युस्ततः परे। ...
आलम्बनार्थसद्भावं व्यर्थं पर्यनुयुञ्जते॥ २७९॥ अथानित्यमालम्बनमिति पक्षः, तदा चक्षुरादिविज्ञानवत् स्फुटतरप्रतिभासाः सर्वा अहंकृतयः प्रसज्येरन्; साक्षाद्वस्तुस्वलक्षणग्राहित्वात् । तत:- तस्मात्, परे-तीर्थिकाः कुमारिलप्रभृतयो व्यर्थमेवास्यांलम्बनं पर्यनुयुञ्जते- 'तस्याज्ञानलक्षणः को नु विषयः परिकल्पितः' इत्यादि ।। २७९॥
तत्र यदुक्तम्-'अनालम्बन एवायमहङ्कारोऽनादिसत्कायदृष्टिवासनाबलाद् भ्रान्तः प्रवर्त्तते' इति । अत्र कुमारिलेनोक्तं दूषणामाशङ्कते
___ ज्ञातरि प्रत्यभिज्ञानं वासना कर्तुमर्हति। ___ नातस्मिन् स इति प्रज्ञां न ह्यसौ भ्रान्तिकारणम्॥२८०॥
तन्नाहम्प्रत्ययो भ्रान्तिरिष्टश्चेद् बाधवर्जनात्। [G.110] वासना हि ज्ञातृविषयां प्रत्यभिज्ञां कर्तुमर्हति। न पुनरतस्मिन् अज्ञातरि, सः ज्ञाता, इति प्रज्ञाम् ज्ञानं वासनां कर्तुमर्हतीति सम्बन्धः । कस्मात् ? न ह्यसौ भ्रान्तिकारणम्, अपि तु यथाऽनुभूतार्थविषयमेवासौ ज्ञानं जनयति, न भ्रान्तमित्यर्थः । तस्मादयमहङ्कारो वासनात उत्पद्यमानत्वात् बाधकप्रमाणाभावाच्च न भ्रान्तो युक्त इति। चेच्छब्दो भिन्नकमो बाधवर्जनादित्यस्यानन्तरं द्रष्टव्यः ॥ २८०॥ नेत्यदिना प्रतिविधत्ते
नान्तरोक्तया युक्त्या तस्य बाधोपदर्शनात्॥२८१॥ अनन्तरोक्ता युक्ति: 'नित्यालम्बनपक्षे तु' (तत्त्व० २७८) इत्यादिः ॥ २८१॥ यच्चोक्तम्- 'न वासना भ्रान्तिकारणम्' इति, तदनैकान्तिकमिति दर्शयन्नाह
ईश्वरादिषु भक्तानां तद्धेतुत्वादिविभ्रमाः। वासनामात्रभावाच्च जायन्ते विविधाः कथम्॥ २८२॥
निरालम्बनता चैवमहङ्कारे यदा स्थिता। यदि हि वासना भ्रान्तिकारणं न भवेत्, तदानीमीश्वरः सर्वोत्पत्तिमंतां हेतुः, सर्वज्ञः, नित्यबुद्धिसमाश्रयः-इत्यादयो विभ्रमाः कथमिव सर्वोत्पत्तिमतां हेतुः, सर्वज्ञः, नित्यबुद्धिसमाश्रयः-इत्यादयो विभ्रमाः कथमिव वासनामात्रसम्भवादुद्भवेयुः । तथा हि-कुमारिलेन