________________
आत्मपरीक्षा
तदत्र निगमनव्याजेन दोषमाह
तन्नित्यशब्दवाच्यत्वं नात्मनो विनिवार्यते।
स्वरूपविक्रियावत्त्वाद् व्युच्छेदस्तस्य विद्यते॥२७३॥ तत्=तस्मात्, नित्यशब्दवाच्यत्वं न वार्यतेऽस्माभिः, स्वोपादानपुरस्सरस्य प्रतिक्षणध्वंसिनश्चैतन्यस्याऽऽसंसारमविच्छेदात्। किन्तु स्वरूपस्य स्वभावस्य, विक्रियावत्त्वात्= नियमेन पूर्वस्वभावपरित्यागात् स्वभावान्तरप्रादुर्भावश्चेति व्युच्छेदः विनाशोऽस्य स्फुटतरमेवाऽऽसज्यते ॥ २७३ ॥ . यश्चापि सर्पादिदृष्टान्त उपात्तः, स नित्यैकरूपो न सिध्यतीति दर्शयन्नाह
सर्पोऽपि क्षणङ्गित्वात् कौटिल्यादीन् प्रपद्यते।
स्थिररूपे तु पुंसीव नावस्थान्तरसङ्गतिः॥२७४॥ यथैव हि पुंसि स्थिरैकरूपत्वादवस्थान्तरसम्भवो न युक्तः, तथा सर्पस्यापि । यदाऽनुक्षणभङ्गिताऽस्य भवेत्, तदा युक्तोऽवस्थान्तरसम्भवः; स्वभावान्तरोदयलक्षणत्वादवस्थान्तरप्रादुर्भावस्य ॥ २७४ ॥
__यच्चोक्तम्-'अहं वेद्मीत्यहम्बुद्धिर्शातारं प्रतिपद्यते' (तत्त्व० २२९) इति, तदसिद्धमिति दर्शयन्नाह
निरालम्बन एवायमहङ्कारः प्रवर्तते।
. अनादिसत्त्वदृरबीजप्रभावात् क्वचिदेव हि ॥ २७५॥ न ह्यस्याहङ्कारस्य परमार्थतः किञ्चिदालम्बनमस्ति, येनास्य विषयो ज्ञाता स्यात् । यद्येवम्, किमस्योत्पत्तेर्निबन्धनम् ? इत्याह- अनादीत्यादि । सत्त्वदृक्-सत्कायदृष्टिः, तस्या बीजम् वासनांशक्तिरित्यर्थः । अनादि च तत्सत्त्वदृग्बीजं चेति विग्रहः। तस्य प्रभाव:= आधिपत्यम् । क्वचिदेवेति । अध्यात्मनियत इव षडायतने ॥ २७५ ॥ अथ सर्वत्र कस्मान प्रवर्त्तते? इत्याह
. केचिदेवं हि संस्कारास्तद्रूपाध्यवसायिनि। . . आधिपत्यं प्रपद्यन्ते तत्र सर्वत्र वर्त्तते॥२७६ ॥
तद्रूपाध्यवसायिनीति । पूर्वोत्तरकालानुयायिज्ञातृरूपाध्यवसायिन्यहङ्कारे। [G.109] न सर्वत्रेति। सन्तानान्तरे घटादौ ॥ २७६ ॥
'तुल्य: पर्यनुयोगोऽयमन्यथा पुरुषेऽपि वः। ... तच्छक्तिभेदसद्भावात् सर्वमेव निराकुलम्॥२७७॥
किञ्च-आत्मालम्बनत्वेऽप्यहङ्कारस्य तुल्यः पर्यनुयोगः । किमिति? आत्मान्तरेऽपि न प्रवर्त्तत इति। शक्तिप्रतिनियमान्नैवमिति चेत् ? यद्येवम्, अस्माकमपि शक्तिनियमात् क्वचिदेवाध्यात्मिके वस्तुनि प्रवर्त्तते, न सर्वत्रेति व्यवस्थानं सर्वमेव निराकुलम् ॥ २७७॥ स्यादेतत्-भवत्वेतद् व्यवस्थानम्'; किन्तु निरालम्बनत्वमस्य कथं सिद्धम् ? इत्याह
नित्यालम्बनपक्षे तु सर्वाहंकृतयस्ततः। १. अवेत्यं- पा०/
२. भवत्वंव्यव०-पा०।