________________
९८
तत्त्वसंग्रहे प्रत्यात्मनियतेन स्वभावन परस्परतो भेदः; एतावन्मात्रनिबन्धनत्वाद् भेदव्यवहारस्येति भावः। पुंसामपि वस्त्वादिरूपेण परस्परतो भेदो नास्तीत्यतः साध्यविकलतानिवृत्त्यर्थं प्रतिस्वं नियतेनेत्युक्तम् । प्रत्यात्मनियतं रूपमेषामेकान्तेन भिन्नम्, अन्यथाऽनुभवस्मरणादीनां प्रतिनियमाभावाव्यवस्थासङ्करः स्यात्। प्रयोगः-यद्यदेकयोगक्षेमं न भवति, न तत्तेन सहाभेदि, यथा-पुमांस: परस्परं प्रत्यात्मनियतेन रूपेण भिन्नयोगक्षेमाः । नैकयोगक्षेमाश्च सुखाद्यवस्थाः पुंसा सहेति व्यापकानुपलब्धेः ॥ २६९॥
यच्चोक्तम्-"न 'चावस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यति" (श्लो०वा०, आ० ३०) इति, तत्राह
स्वरूपेणैव लीयन्ते यद्यवस्थाश्च पुंसि वः। ...
दुःखाद्यप्यनुभूयेत तत् सुखादिसमुद्भवे ॥२७०॥ अवस्था हि सामान्यात्मनि लीयमानाः स्वरूपेणैव वा लीयेरन्? पररूपेण वा? यद्याद्यः पक्षः, तदा सुखादिसमुद्भवेऽपि सुखाद्यवस्थानुभवेऽपि, तद् दुःखाद्यप्यनुभूयेत; उपलब्धिलक्षणप्राप्तत्वात् ॥ २७०॥ अथ पररूपेणेति पक्षः, तत्राह
न चान्यरूपसंक्रान्तावन्यसंक्रान्तिरिष्यते।
तादात्म्येन च संक्रान्तिरित्यात्मोदयवान् भवेत्॥१७१॥ किञ्च-पुंसि सुखादीनां संक्रान्तिस्तादात्म्येनैवेष्टा, दुःखादिवत्, तदव्यतिरेकादात्मा= पुरुष उदयवान् उत्पत्तिमान् भवेत् ॥ २७१॥
. यच्चोक्तम्-"न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते" (श्रो० वा०, आ० २९) इति, तत्राह
यदि कर्तृत्वभोक्तृत्वे नैवावस्थां समाश्रिते।
तदवस्थावतस्तत्त्वान्न · कर्तृत्वादिसम्भवः ॥२७२॥ यदि हि पुमांसमेवाश्रितं कर्तृत्वादि स्यात्, तदत्यक्तपूर्वरूपस्यात्मनो न सम्भवेत् । प्रयोगः- योऽपरित्यक्ताकञभोक्त्रवस्थः, स न करोति न चापि भुङ्क्ते, यथा-आकाशम्। अपरित्यक्ताकञभोक्त्रवस्थश्च सर्वदा पुरुष इति व्यापकविरुद्धोपलब्धिः ॥ २७२ ॥ [G.108] _ "बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता।
अथाविकृतिरात्माख्यः प्रमातेति न युज्यते॥" (प्र० समु० ४८) इति यदेतदाचार्यदिङ्नागपादैरुक्तम्, तत्र कुमारिलेनोक्तम्
"नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते। विक्रयामात्रवाचित्वात्तव्युच्छेदोऽस्य तावता"॥
(श्री० वा०, आ० २२) इति । १. चायमवस्था-पा०, गा।
२. तद्दुःखमप्य०-०, गा० । ३. 'रिष्यते'- इति पाठ: पा० पुस्तके त्रुटितः। ४. 'रात्मायं'-प्रमाणसमुच्चयस्य महिशूरसंस्करणस्थः पाठः। ५. 'विक्रियामात्रवाचित्वे न ह्यच्छेदोऽस्य'- इति तत्रस्थः पाठः।