________________
२७
आत्मपरीक्षा सुखदुःखाद्यवस्थाश्च गच्छन्नपि नरो मम। चैतन्यद्रव्यसत्त्वादिरूपं नैव विमुञ्चति ॥ २६५॥
(थो० वा०, आ० २६) गच्छन्नपीति प्रतिपद्यमानोऽपि। नर इति आत्मा। सत्त्वादीत्यादिशब्देन ज्ञेयत्वप्रमेयत्वकर्तृत्वभोक्तृत्वादिसामान्यधर्मपरिग्रहः ॥ २६५ ॥ [G.106] नापि विशेषधर्मस्याप्यत्यन्तसमुच्छेद इति दर्शयन्नाह
न चावस्थान्तरोत्पादे पूर्वाऽत्यन्तं विनश्यति। उत्तरानुगुणार्थं तु सामान्यात्मनि लीयते॥२६६ ॥
(श्रो० वा०, आ० ३०) पूर्वेति सुखाद्यवस्था। यद्येवम्, सुखाद्यवस्थायामपि दुःखावस्था किं न संवेद्यते? इत्याह- उत्तरानुगुणार्थमित्यादि । स्वरूपेणैव हि स्थितायां सुखावस्थायां नोत्तरा दुःखावस्था भवतीत्यतः सा लीयमाना सामान्यात्मनि सर्वावस्थानुगामिनि चैतन्यद्रव्यत्वादिलक्षणे उत्तरदुःखावस्थोत्पादानुगुणा भवतीति तदर्थं सा तत्र लीयते ॥ २६६ ॥
यद्येवम्, अवस्थान्तरवत् सामान्यात्मन्यपि लयोऽवस्थानामयुक्तः; विरोधात्? इत्याशङ्कयाह
स्वरूपेण यवस्थाना मन्योन्यस्य विरोधिता। अविरुद्धस्तु सर्वासु सामान्यात्मा प्रतीयते ॥२६७॥
(श्लो० वा०, आ० ३१) स्वेन सुखादिरूपेणावस्थानं परस्पर विरोधादन्योन्यं लयो न युक्तः । अवस्थान्तरे तु सामान्यात्मनि लये को विरोधो येनासौ तत्र न भवेत् ! तथा ह्यसौ सामान्यात्मा सर्वावस्थास्वविरुद्धोऽनुयायी दृश्यते; सर्वस्यामवस्थायां चैतन्यादीनामुपलम्भात् ।। २६७ ।। तत्रेत्यादिना प्रतिविधत्ते
. तत्र नों चेदवस्थानामेकान्तेन विभिन्नता। . पुरुषात् तद्व्ययोत्पादे स्यातामस्यापि तौ तथा ॥ २६८॥
यदि हि पुरुषादवस्थानामेकान्तेन भेदो नेष्यते, तदा तव्ययोत्पादे-तासामवस्थानां व्ययोत्पादे सति, अस्यापि पुंसस्तौ व्ययोत्पादौ स्याताम्। एकान्तेनेत वचनं कथञ्चिदप्यतिरेकेऽवस्थावदुदयव्ययप्रसङ्गो दुर्वार इंति ज्ञापनार्थम्। प्रयोगः-यो यदव्यतिरिक्तस्तस्य तदुत्पादविनाशे सत्युत्पादविनाशौ भवतः, यथा तेषामेव सुखादीनां स्वरूपस्य। सुखाद्यव्यतिरिक्तस्वभावश्च पुरुष इति स्वभावहेतुः ।। २६८॥ न चायमनैकान्तिको हेतुरित्यादर्शयन्नाह
विरुद्धधर्मसङ्गे तु भेद ऐकान्तिको भवेत्।
पुंसामपि स्वभावेन प्रतिस्वं नियतेन ते ॥ २६९॥ यदि ह्यवस्थानामेवोत्पादव्ययौ, न पुरुषस्य-इत्येवमुत्पादानुत्पादलक्षणो |G.107 विरुद्धधर्मसङ्गोऽभ्युपगम्यते, तदा भेदप्रसङ्गः, यथा पुंसां बहूनां परम्परं प्रतिम्वं नियतेन १. स्वरूपेण-जै।