________________
९६
तत्त्वसंग्रहे विचित्रा: नानाप्रकाराः, अचिन्त्याः शक्तयो येषां ते तथोक्ताः। न हि भावानां शक्तिप्रतिनियमः पर्यनुयोगमर्हति; स्वहेतुपरम्पराकृतत्वात्तस्य। भवतामपि चात्रांशे नास्ति विवादः। यथोक्तम्
"अग्निर्दहति नाकाशं कोऽत्र पर्यनुयुज्यताम्!" (श्लो० वा०, आरुवा०२९) इति।
यद्येवम्, बुद्धावपि तर्हि विषयच्छायाप्रतिपत्तिन्तिरेवास्तु, मा भूच्छायाप्रतिपत्तिः? इत्याह
___ न बुद्धौ भ्रान्तिभावोऽपि युक्तो भेदवियोगतः ॥ २६२॥ . न बुद्धौ भ्रान्तिसद्भावो युक्तः । न केवलं छायाप्रतिपत्तिर्न युक्तेत्यपिशब्दः । कस्मात् ? भेदवियोगत:=भेदाभावात्। स्फटिकादिषु हि भ्रान्तियुक्ता; तेभ्यो भिन्नाया बुद्धेर्धान्तायाः सम्भवात् । न त्वेवं बुद्धावपरा भ्रान्तिरूपा बुद्धिरस्ति; यस्मादेकैव बुद्धिरिष्टा। न च स्वयमेव विभ्रमरूपा जायते धीरिति युक्तं वक्तुम्; बुद्धेर्नित्यत्वाभ्युपगमात् ॥ २६२ ॥ [G.105] यत्पुनरेकत्वनित्यत्वसाधनार्थम् "तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिः" (श्रो० वा०, श० अ० ४०८) इत्युक्तम्, तत्राह
__ अबोधरूपभेदं तु समानं सर्वबुद्धिंषु। .
आरोप्य प्रत्यभिज्ञानं नानात्वेऽपि प्रवर्त्तते ॥ २६३॥ अनैकान्तिकमेतत् प्रत्यभिज्ञानम्, यस्मादबोधरूपेभ्यो घटादिभ्योः भेदम् व्यावृत्तिं समारोप्य प्रत्यभिज्ञानं सर्वबुद्धिषु नानात्वे संत्यपि प्रवर्त्तमानमविरुद्धमेव। अवश्यं चैतद्विज्ञेयम्-यन्नानात्व एव सति विजातीयव्यावृत्तिनिबन्धनकृतमेतत् प्रत्यभिज्ञानम्, न पुनरनानात्व एवेति। तथा हि-निरालम्बनासु समारोपबुद्धिष्वर्थभेदेऽनुपाश्रितेऽप्यप्रत्यभिज्ञानमस्त्येव, न हि तत्रैवं भवति-यैव गजबुद्धिरासीत् सैव तुरङ्गस्यन्दनबुद्धिरिति। प्रसाधितं चानालम्बनत्वमासां बुद्धीनामिति न पुनरुच्यते। तेन यदुक्तम्-"न चास्त्यप्रत्यभिज्ञानमर्थभेदेऽनुपाश्रिते" (श्लो० वा० श० अं० ४१०) इति, तदसिद्धमिति ग्रहीतव्यम् ॥ २६३॥
किञ्च-यदि नित्यैकरूप आत्मेष्यते भवद्भिः, तदा सुखाद्यवस्थाभेदो न प्रापप्नोति। अथ सुखाद्यवस्थाभेदोऽभ्युपगम्यते, न तर्हि नित्यैकरूपत्वमस्याभ्युपेतव्यम्; न ोकस्य भेदाभेदौ परस्परविरुद्धौ स्वभावौ युक्ताविति ? एतच्चोद्यपरिहारार्थं यत्कुमारिलेनोक्तं तत्तावद्, दूषयितुमुपक्षिपन्नाह
अवस्थाभेदभेदेन शून्येऽप्येकाततः स्थिते।
स्थिरात्मन्यात्मनीदं तद् यत् परैः परिकल्प्यते ॥ २६४॥ अवस्थानाम्=सुखादीनाम्, भेद: नानात्वम्, तेन भेदः-पुरुषस्य नानात्वमेव, तेन शून्य इति अवस्थानानात्वेऽप्येकस्वभाव एवेत्यर्थः । अत्र कारणमाह-स्थिरात्मनाति । स्थिर:= नित्यः, आत्मा स्वभावो यस्यात्मनः, स तथोक्तः । यदि वा-अवस्थाभेदा:=अवस्था-विशेषाः सुखादयः, तेभ्य एकान्तेन भेदः पृथग्भावः, तेन शून्यः, तद्व्यतिरिक्तेऽपीत्यर्थः ॥ २६४॥
किं तद्, यत् परिकल्प्यते? इत्याह१-१. स्थिरात्मनि..... यत्परैः-पा०. गा० ।