________________
आत्मपरीक्षा
९५ अपरित्यक्तपूर्वरूपत्वात् । यता-उपधानावस्थायामपि नीलाद्याकारवियुक्तो दृश्येत, पूर्वरूपाविशेषादिति। एतेन-अक्षणिकपक्षे सामान्येन सर्वेषामेव स्फटिकदर्पणादीनां छायाप्रतिपत्तिरपास्ता ॥ २५७-२५८॥ सम्प्रति क्षणिकाक्षणिकपक्षयोश्छायाप्रतिपत्तिं प्रत्येकं निराकरोति
स्थिरत्वानिर्विभागत्वान म नामसहस्थितेः।
बिभर्ति दर्पणतलं नैव च्छायां कदाचन ॥ २५९॥ स्थिरत्वात् अक्षणिकत्वात्, दर्पणतलं पूर्वच्छायां न बिभर्तीति सम्बन्धः । क्षणिकत्वेऽपि निर्विभागत्वान्न बिभर्तीति सम्बन्धनीयम्। तथा हि--कूपान्र्तगतोदकवद् दर्पणतले प्रतिबिम्बकमन्तर्गतमुपलभ्यते, न च दर्पणतलस्य विभाग:=रन्ध्रमस्ति; निबिडतरावयवसन्निवेशात् । तस्माद् भ्रान्तिरियम्।
___ अथ वा, निर्विभागत्वम् पूर्वोत्तरावस्थायामनानात्वम्। अत्र कारणम्-स्थिरत्वादिति। तेनायमर्थो भवति-स्थिरत्वेन निर्विभागत्वात्, पूर्वोत्तरावस्थारहितत्वादित्यर्थः।
किञ्च-मूतनामसहस्थितेः, नैव दर्पणतलं छायां बिभर्तीति सम्बध्यते। तथा हि-दर्पणतले तद्देशान्येव पर्वतादिप्रतिबिम्बान्युपलभ्यन्ते, न च मूर्ताः पदार्था कदाचिदेकदेशतामपद्यन्ते; ऐकात्म्यप्रसङ्गात्। एतच्च क्षणिकाक्षणिकत्वे साधारणं दूषणम्॥ २५९॥ स्फटिकस्यापि भावतो नोपधानच्छायाप्रतिपत्तिरस्तीति दर्शयति
पावद्वितयसंस्थाश्च सुशुक्लं स्फटिकोपलम्। . समीक्ष्यन्ते तदेषोऽपि न च्छायां प्रतिपन्नवान् ॥२६०॥
तथा हिः-यदैवाग्रतः स्थितः प्रतिपत्ता जपाकुसुमसम्पर्काद्रक्तं स्फटि-[G.104] कमुपलभते, तदैव ये पार्श्वद्वितयावस्थितास्ते सकलमेव स्फटिकोपलं सुशुक्लमुपलभन्ते, तदैव यदि छायाप्रतिपत्तिस्तस्याभविष्यत्तदा पुरोऽवस्थितपुंस इव पार्श्वद्वितयावस्थितयोरपि प्रतिपत्त्रोः रक्तावभासा प्रतिपत्तिरभविष्यत्। अयं च क्षणिकाक्षणिकपक्षयोरपि साधारणो दोषः ॥ २६०॥ भेदः प्रत्युपधानं चेत्यादिना त्वक्षणिकत्वपक्ष एव दोषमाह
भेदः प्रत्युपधानं च स्फटिकादेः प्रसज्यते।
' तच्छायाप्रतिपत्तिश्चेत् तस्य विदयेत तात्त्विकी॥२६१॥ यदि हि परमार्थः स्फटिकादेरुपधानोपरागप्रतिपत्तिर्भवेत्, तदा यथाक्रमभाविनीनामुपधानच्छायानां स्वभावभेदानकात्म्यम् । तद्वत् तदात्मनः स्फटिकादेरप्युपधानमुपधानं प्रति प्रत्युपधानम्=भेदः प्रसज्येत । यदि पुनर्धान्तिरियमित्यङ्गीक्रियते, तदाऽयमदोष इति ज्ञापनार्थं तात्त्विकीत्याह।
यतश्चैवं पक्षद्वयेऽपि छायाप्रतिपत्तिर्न युज्यते, तस्माद् भ्रान्तिरियमिति स्थितम्॥२६१ ॥ यद्येवम्, कस्मात्स्फटिकादावेव सा भ्रान्तिर्भवति, न कुड्यादौ ? इत्याह
तस्माद् भ्रान्तिरियं तेषु विचित्राचिन्त्यशक्तिषु। १. मूर्तानां वाऽसहस्थिते:- जे० । २. गा० पुस्तके नास्ति। ३. किं वा-जै०। ४. ०मुपधानं छायानां-पा०. गा० ।