________________
९४
तत्त्वसंग्रहे
कथम्? इत्याह
शब्दोपधाना या बुद्धी रसरूपादिगोचरा।
सैव हीति न चेद् भेदास्त्वया चैवोपपादिताः ॥ २५४॥ . • तथा हि-या शब्दोपधाना-शब्दविषया बुद्धिः, सैव रसरूपादिविषया, नान्या; ततश्चैकार्थानुभववेलायामशेषार्थानुभवप्रसङ्गः; तदुपलम्भात्मिकाया बुद्धः सर्वदा व्यवस्थितत्वात्। यथोक्तम्
"एकयाऽनेकविज्ञाने बुध्येत सकदेव तत्। अविशेषात् क्रमेणापि मा भूत्तदविशेषतः"॥
. (प्र० वा० १...१०८) इति। न चेदिति । यदि वा शब्दोपधाना बुद्धिः सैव रसादिगोचरा नाङ्गीक्रियते, एवं सति भेदो बुद्धीनां भवता स्ववाचैवोपपादितः स्यात् ॥ २५४॥ यश्चायं वह्निदृष्टान्तः (तत्त्व० २४३), सोऽप्यसिद्ध इति दर्शयन्नाह-.
समस्तदायरूपाणां न नित्यं दहनात्मकः।
कृशानुरपि निःशेषमन्यथा भस्मसाद् भवेत् ॥ २५५॥ न ह्यशेषदाह्यदहनस्वभावो दहनो नित्यमवस्थितः, अन्यथा सकलमेव दाह्यं भस्मसाद्भवेत्; दहनज्वालानुषक्तदाह्यवत् सदासन्निहितस्वदाहकत्वात्। न केवलं बुद्धिः सर्वार्थबोधस्वभावा न भवतीत्यपिशब्देन दर्शयति ॥ २५५ ॥
____ यद्येवम्, यदि नित्यदहनात्मकः कृशानुर्न भवति, कथं तद्यपनीतमप्यर्थं दहेत् ? इत्याह
दायार्थसन्निधावेव तस्य तद्दाहकात्मता।
युक्ता सर्वार्थदाहो हि सकृदेवं नन्युज्यते ॥२५६॥ एवमिति समनन्तरोदितार्थाभ्युपगमे सति । सर्वार्थदाहो युगपन्न युज्यते, न प्रसज्यते इत्यर्थः ॥ २५६॥
__यच्चोक्तम्- "यथा वा दर्पणः" (तत्त्व० २४४) इत्यादि,तदपि दर्पणादेर्नित्यैकरूपत्वे सति न युज्यत इति दर्शयन्नाह- [G.103]
नीलोत्पलादिसम्बधाद् दर्पणस्फटिकादयः। तच्छायाविभ्रमोत्पादहेतवः क्षणभङ्गिनः ॥ २५७॥ सोपधानेतरावस्थ एक एवेति सर्वदा।
तच्छायस्तद्वियुक्तो वा स दृश्येतान्यथा पुनः ।। २५८॥ स्फटिकदर्पणादिः प्रतिक्षणध्वंसी सन् नीलोत्पलादिसम्पर्काद् विपर्यस्तज्ञानोत्पत्तावाधिपत्यं प्रतिपद्यते। अन्यथा-यद्यक्षणिकः सन् छायां प्रतिपद्येत, तदा य एवं सोपधानावस्थ: स एवानुपधानावस्थितिरिति कृत्वा नीलाद्युपधानवियुक्तोऽपि नीलादिच्छायः समुपलभ्येत; १. 'बुद्ध्याऽस्तु'- इति मनोरथनन्दिवृत्तिसम्मतः पाठः। २. 'अविरोधात्- इति मनोरथनन्दिवृत्तिसम्मतः पाठः। ३. पा०, गा० पुस्तकयो स्ति।
४. सज्यते-पा०, गा०।