________________
आत्मपरीक्षा अन्यदेशादिभाविन्यो व्यक्तयश्चेन्निबन्धनम्।
सर्वत्रालम्बनं यस्माद् देशकालान्यथात्मकम् ॥२५॥ निबन्धनर्मिति। बुद्धर्भेदव्यवस्थानं प्रति कारणमित्यर्थः । देशकालावन्यथात्मकौ [G.101] अन्यप्रकारौ यस्य तत्तथोक्तम्, देशकालाभ्यां वा यथाऽऽत्मा यस्येति विग्रहः ॥ २५० ॥ नन्वित्यादिना प्रतिविधत्ते
ननु तद्देशसम्बन्धो नैव तासां तथास्ति तत्।
किमिति प्रतिभासन्ते तेन रूपेण तत्र च ॥२५१॥ यस्मिन् हि देशे येन क्रमेण ताः समारोपिता व्यक्तयस्तदा प्रतिभासन्ते तेन देशेन सम्बन्धो नैव तासां देशान्तरकालान्तरगतानां तथा तेन क्रमेणास्ति, तत्किमिति तेन स्वेच्छासमारोपितरूपेण प्रतिभासन्ते! न ह्यन्येन रूपेणान्यस्य प्रतिभासनं युक्तम्; अतिप्रसङ्गात्। एवं हि सर्वमेव ज्ञानं सर्वविषयं प्रसज्येत । ततश्च प्रतिनियतार्थव्यवस्थोच्छेद एव स्यात् ॥२५१॥
भवन्मते हि नाकारो बुद्धेर्बाह्यस्तु वर्ण्यते। किञ्च, भवतो मीसांसकस्य मते यो भासमानः स आकारो न बुद्ध; किन्त्वसौ बाह्यार्थस्वभावो वर्ण्यते; "आकारवान् बाह्योऽर्थो निराकारा बुद्धिः" ( ) इति वचनात् । यदि नामैवम्भूतम्, ततः किम्? इत्याह
न विवक्षितदेशे च 'गजवास्यादयः स्थिताः ॥२५२॥ विविक्षतो देशो यत्र तत्समारोपः कृतः। ततश्च यद्देशकालसम्बद्धास्ते गजादयस्तद्देशसम्बन्धित्वेनैव प्रतिभासेरन्, स्वविरहिणि तु देशान्तरे कालान्तरे च किमिति प्रतिभासन्ते! तस्मानिरालम्बना एवैते प्रत्ययाः परमार्थतोऽसङ्कीर्णस्वभावाश्चलात्मानश्च; कादाचित्कत्वादिति सिद्धम्। तत्स्वभावस्य च पुंसोऽनित्यत्वानेकत्वे च सिद्धे।
स्यान्मत्वम्-प्रत्ययस्तस्य पुरुषस्य धर्मः, तेन तस्य भेदेऽपि न पुंसो भेदः; धर्मित्वात्तस्येति? तदयुक्तम् प्रत्ययश्चैतन्यं बुद्धिर्ज्ञानमित्यनर्थान्तरत्वात्। न हि नामभेदमात्रेण वस्तूनां स्वभावो भिद्यते। किञ्च-नामभेदेऽपि तेषां प्रत्ययानां चैतन्यात्मकमेकमनुगामिरूपमिष्टमेव । तस्य च चैतन्यस्याभेदे प्रत्ययानामपि तत्स्वभावानामविभाग एव; अन्यथा हि विरुद्धधर्माध्यासा कान्तिको भेद एव स्यात् । एतेनैव निरालम्बनप्रत्ययप्रतिपादनेनाप्रत्यक्षत्वं बुद्धेः प्रत्युक्तम्। तथा हि-स परिस्फुरन्नाकारो न बाह्यो गजादिरिति साधितम्, ततश्च तं तथा परिस्फुरन्तमाकारमात्मभूतमेव प्रतिपाद्यमाना बुद्धयः स्वयम्प्रकाशरूपत्वात् स्वसंविद्रूपाः सिध्यन्ति ॥ २५२॥ [G.102) यच्चोक्तम्-"स्वरूपेण यथा वह्निः" (तत्त्व० २४३) इत्यादि, तद्दूषणार्थमत्रैवोपचयन्नाह.
सर्वार्थबोधरूपा च यदि बुद्धिः सदा स्थिता।
सर्वदा सर्वसंवित्तिस्तत् किमर्थ न विद्यते !॥२५३॥ यदि सर्वार्थबोधरूपा सदा बुद्धिरवस्थिता, तदा सर्वदा सर्वार्थवेदनप्रसङ्गः ॥ २५३ ॥ १. गजयष्ट्यादय:- पा०, गा०।