________________
तत्त्वसंग्रहे
(श्लो० वा०, श० अ० ४०८) यद्येवम्, कथमसौ धीर्भङ्गिनी प्रसिद्धा?–इत्येतदाशङ्कय तेनेत्यादिना सूचितमेव कारणमुपदर्शयन् बुद्धेर्भङ्गिनीत्वं समर्थयते । उपनेतारः रूपादीनां विषयाणां प्रापयितारश्चक्षुरादयः, तेषां संरम्भः व्यापारः, तस्य भङ्गित्वात्, भङ्गिनी मतिर्लक्ष्यते । न त्वसौ स्वतो विनाशिनी। यदि तर्हि न स्वतो विनाशिनी, तदा सर्वमर्थमुपलभेतेति तदवस्थमेव चोद्यम् ? [G.100] इत्यत आह-न नित्यं दाहक इत्यादि। तथा न नित्यं बुद्धिः सर्वमर्थमुपलभते; सर्वदा सर्वस्य विषयस्यासन्निधानादिति भावः ॥ २४६ ॥ अथ नित्यत्वमस्याः कथमवगम्यते? इत्याह
तत्र बोधात्मकत्वेन प्रत्यभिज्ञायते मतिः। तत्रेति वाक्योपन्यासे । बोधात्मकत्वेन बुद्धिर्बुद्धिरिति प्रत्यभिज्ञायमानत्वात्, शब्दवन्नित्या बुद्धिः। यद्येवम्, इयं घटबुद्धिः, इयं पटबुद्धिरिति कथमिदं बुद्धीनां वैलक्षण्यं लोके प्रतिपत्तृभिरुपगतम् ? इत्याहघटहस्त्यादिबुद्धित्वं तद्भेदाल्लोकसम्मतम् ॥२४७॥
(श्लो० वा०, श० अ० ४०९) तद्भेदादिति।घटहस्त्यादिभेदात् ॥ २४७॥ सैवेत्यादिना एतदेव स्पष्टयति
सैवेति नोच्यते बुद्धिरर्थभेदानुसारिभिः। न चास्त्यप्रत्यभिज्ञानमर्थभेदेऽनुपाश्रिते' ॥ २४८॥
-
(श्लो० वा०, श० अ० ४१०) अर्थभेदानुसारिभिरिति प्रतिपत्तृभिः । अनेनान्वयव्यतिरेकाभ्यां अर्थभेदकृत एव बुद्धर्भेद इति दर्शयति। न चास्त्यप्रत्यभिज्ञानमिति। अस्त्येव.प्रत्यभिज्ञानमित्यर्थः ॥ २४८॥ . नन्क्त्यिादिना प्रतिविधत्ते
ननु हस्त्यादिशून्यायां भूमावारोपकारिणः।
प्रत्यया ये प्रवर्त्तन्ते भेदस्तत्र किमाश्रयः? ॥२४९॥ यदि ह्यर्थभेदकृत एव बुद्धेर्भेदः, तदा ये हस्त्यादिशून्यायां भुवि क्रमेण गजतुरगादीनवस्थितान् समारोपयन्तः प्रत्ययाः प्रवर्तन्ते, तेषु भेदः किमाश्रयः प्रतीयेत! नैव कश्चिद् भेदव्यवस्थाश्रयोऽस्तीति यावत्। तथा हि-न स्वतो भेदोऽस्ति; सर्वबुद्धीनामेकत्वाभ्युपगमात्। नाप्युपधानभूतविषयनानात्वम् तत्रोपधायकस्य कस्यचिदर्थस्याभावात् ॥ २४९ ।। स्यादेतत्-अर्थशून्यत्वमसिद्धम्, तथा चोक्तं कुमारिलेन
"स्वप्रादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते। सर्वत्रालम्बनं बाह्यं देशकालान्यथात्मकम्॥"
(श्लो० वा०, निरा० १०७-८) इति। तदेतदाशङ्कते१. भेदे उपाश्रिते-पा०।