________________
आत्मपरीक्षा "न हि तत्क्षणमप्यास्ते जायते वाऽप्रमात्मकम्। येनार्थग्रहणे पश्चाद् व्याप्रियेतेन्द्रियादिवत्"॥
___ (श्री० वा०, चो० ५५) इति। एकत्वाच्च बुद्धेः 'प्रमाणषट्काभ्युपगमविरोधश्च । तथा प्रत्यक्षविरोधोऽपि; निरन्तरमध्यारोपितानेकविधार्थचिन्तायामुदयव्ययानुषङ्गिणीनां बुद्धीनामतिविस्पष्टमनुभूयमानत्वात् ॥ २४१॥ कुमारिलस्तु सर्वं विरोधराशिमपश्यन्नाह
बुद्धीनामपि चैतन्यस्वाभाव्यात् पुरुषस्य च। नित्यत्वमेकता चेष्टा भेदश्चेद् विषयाश्रयः ॥ २४२॥
(थोक० वा०, श० अ० ४०४) बुद्धीनां पुरुषस्य च नित्यत्वमेकता चेष्टा, कस्मात्? चैतन्यस्वाभाव्यात्-[G.99] बुद्धिलक्षणचैतन्यस्वभाव्यात् पुरुषस्यास्मन्मतेनेत्यर्थः । कथं तर्हि रूपबुद्धिः, रसबुद्धिरित्यादिभेदः प्रतीयते? इत्याह-भेदश्चेद्विषयाश्रय इति। चेच्छब्दः परमताभ्युपगमे । यद्येवं कल्प्यत इत्यर्थः ॥ २४२॥ . स्यादेतद्-यदि नित्यैका बुद्धिस्तदा किमिति क्रमेण रूपादीन् प्रतिपद्यते; यावता सकृदेव प्रतीयाद्, विशेषाभावात्? इत्याह
स्वरूपेण यथा वह्निर्नित्यं दहनधर्मकः । उपनीतं दहत्यर्थं दाह्यं नान्यन्न चान्यथा ॥२४३॥
. (श्लो० वा०, श० अ० ४०५) यथा किल वह्निर्नित्यं दहनात्मकोऽपि सन्न सर्वदा सर्वं दहति, किं तर्हि ? उपनीतम्-ढौकितमेव दहति । तत्रापि यदेव दाह्यम्-दग्धुं शक्यं तदेव दहति, नाभ्रादिकमित्यतो दाह्यमित्याह ॥ २४३॥ .
यथा वेत्यादिना दृष्टान्तान्तरमाह... यथा वा दर्पणः स्वच्छो यथा वा स्फटिकोपलः।
यदेवाऽऽधीयते तत्र तच्छायां प्रतिपद्यते॥२४४॥ ... तथैव नित्यचैतन्याः पुमांसो देहवृत्तयः। गृह्णन्ति करणानीतान् रूपादीन् धीरसौ च नः ॥ २४५॥
(श्लो० वा०, श० अ० ४०६,४०७) मलिनस्य च्छायाप्रतिपत्त्यभावात् स्वच्छ इत्युक्तम्। आधीयत इति । ढौक्यत इत्यर्थः । तथैवेति दार्टान्तिकोपदर्शनम् । यद्यपि पुमांसो व्यापिनः, तथाऽप्यदृष्टावशादेह एव वर्तमानाश्चक्षुरादिकरणोपनीतान् विषयान् गृह्णन्ति, नान्यत्र । यत्त्वेतन्नित्यं चैतन्यम्, असावस्माकं धी:= बुद्धिः, न तु सावयवत्तव्यतिरेकिणी बुद्धिः ॥ २४४-२४५ ॥ ... तेनोपनेतृसंरम्भभङ्गित्वाद् भङ्गिनी मतिः।
न नित्यं दाहको वह्निर्दायासन्निधिना यथा ॥२४६॥ १. भेदस्तु- इति श्लो० वा० पाठः। २. तथा-पा०, गा०। ३. दहनकर्मक:- इति श्लोकवार्तिकस्थः पाठः।