________________
so
तत्त्वसंग्रहे तयाऽहम्बुद्ध्या ग्राह्यो न भवति, द्वितयस्य=अतीतवर्तमानज्ञानक्रियाद्वयस्यासम्भवात्। तथा हि-नासौ सन्तानो ज्ञातवान् पूर्वम्, नाप्यधुना जानाति; तस्य कल्पितत्वेनावस्तुत्वात्। न चावस्तुनो ज्ञातृत्वं भवति, तस्य वस्तुधर्मत्वात्। तस्माद् यथोक्तज्ञानव्यतिरेकेण यत्र विषयेऽयमहङ्कारो वर्तते स आत्मेति सिद्धम् ॥ २२९-२३७॥ अथ शाश्वतरूपत्वमस्य कथं सिद्धम्? इत्याह
व्यतीताहङ्कतिर्ग्राह्यो' ज्ञाताऽद्याप्यनुवर्तते।
अहम्प्रत्ययगम्यत्वाद् इदानीन्तनबोद्धवत् ॥२३८॥ [G.98] योऽतीताहम्प्रत्यगम्यः सोऽद्याप्यनुवर्तते, यथेदानीन्तनो बोद्धा अहम्प्रत्ययगम्यश्चरे व्यतीताहङ्कारविषयो बोद्धेति स्वभावहेतुः। अथ वा-यो ज्ञाता अहम्प्रत्ययबाह्यो वा स व्यतीताहंकृतिायः; यथा शस्तनो ज्ञाता। अहम्प्रत्ययगम्यश्चायमिदानीन्तनो बोद्धेति स्वभावहेतुः ॥ २३८॥
__एष वा ह्यस्तनो ज्ञाता ज्ञातृत्वात्तत एव वा।
ह्यस्तनज्ञातृवत् तेषां प्रत्ययानां च साध्यता ॥ २३९॥ एष वेति । इदानीन्तनो बोद्धा। तत एवेति। अहम्प्रत्ययगम्यत्वात्। एवं ज्ञातारं धर्मिणं कृत्वा प्रयोगो दर्शितः,साम्प्रतमहम्प्रत्ययानां साध्यधर्मितां कृत्वा प्रयोगान्तरं दर्शयन्नाहतेषामित्यादि। तेषामिति अतीताद्यतनानामहम्प्रत्ययानाम्। साध्यतेति। साध्यधर्मितेत्यर्थः । कथम्? इत्याह
एकसन्तानसम्बद्धज्ञात्रहम्प्रत्ययत्वत:५ ।
ह्यस्तनाद्यतनाः सर्वे तुल्यार्था एकबुद्धिवत् ॥ २४०॥ ह्यस्तनाद्यतनाः सर्वे अहम्प्रत्ययाः' इत्ययं साध्यधर्मिनिर्देशः । 'तुल्यार्थाः' इति साध्यधर्मः। एकविषया इत्यर्थः । एकेन देवदत्तादिसन्तानेन सम्बद्धो यो ज्ञाता तत्र वा येऽहम्प्रत्यया एकसन्तानसम्बद्धज्ञात्रहम्प्रत्ययाः, तद्भावस्तत्त्वम्। अयं च हेतुनिर्देशः । अहम्प्रत्ययत्वमा पुरुषान्तरीयेष्वप्यहङ्कारेषु प्रवर्त्तते-इत्यतोऽनैकान्तिकत्वपरिहारार्थमेकसन्तानसम्बद्धज्ञातृविषयत्वं हेतुविशेषणं कृतम्। एकबुद्धिवदिति दृष्टान्तः । तेषामेवाहम्प्रत्यायानां मध्ये विवक्षितैकबुद्धिवदित्यर्थः ॥ २४०॥ . तदत्रेत्यादिनोत्तरपक्षमारभते
तदत्र चिन्त्यते नित्यमेकं चैतन्यमिष्यते।
यदि बुद्धिरपि प्राप्ता तद्रूपैव तथा सति ॥ २४१॥ यदि हि चैतन्यं नित्यैकरूपमङ्गीक्रियते, तदा बुद्धिरपि चैतन्यरूपाव्यतिरेकान्नित्यैकरूपा प्राप्नोति । न चैवमिष्टम्; अतोऽभ्युपगमविरोधः प्रतिज्ञायाः। तथा हि भाष्यकारेणोक्तम्-'क्षणिका हि सा न बुद्ध्यन्तरकालमवतिष्ठेत'। ( ) इति । तथा जैमिनिनाऽप्युक्तम्-"सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्" इति (मी० सू० १.१.४)। नित्यत्वे सति जन्मायोगात्. स्ववचनविरोधश्च कुमारिलस्य। यथोक्तं तेनैव१. ०कृतिश्चाद्यो-पा०, गा०। २. योऽहम्प्रत्यय०-पा०, जै०। ३-३. पाठोऽयं पा०, गा० पुस्तकयो स्ति। ४. साध्यते- पा०, गा०।
५. ०सम्बन्ध०-पा०, गा०।