________________
आत्मपरीक्षा स चात्मा यदि वा ज्ञानं स्यादेकान्तविनश्वरम् ॥२२९॥ यद्यात्मा . विषयस्तस्याश्चतुरस्त्रं तदाऽखिलम्। क्षणिकज्ञानपक्षे तु सर्वमेवातिदुर्घटम् ॥ २३०॥ तथा हि 'ज्ञातवान् पूर्वमहमेव च सम्प्रति। अहमेव प्रवेग्रीति या बुद्धिरुपजायते ॥२३१॥ तस्या ज्ञानक्षणः को नु विषयः परिकल्प्यते। अतीतः साम्प्रतः किं वा किं वासावथ सन्ततिः॥२३२॥ तत्राऽऽद्ये विषये 'ज्ञाते ज्ञातवानिति युज्यते। जानामीति न युक्तं तु नेदानीं वेत्त्यसौ यतः॥ २३३॥ वर्तमाने . तु विषये प्रवेद्यीत्युपपद्यते। ज्ञातवानित्यसत्यं तु नैवासीत् प्रागिदं यतः ॥२३४॥
अत एव द्वयं ग्राह्यं नैव तस्याः प्रकल्प्यते। न ह्यभौ ज्ञातवन्तौ वा जानीतो वाधुना पुनः॥ २३५॥ सन्तानोऽपि न तद्बाह्यो द्वितयस्याप्यसम्भवात्। न ह्यसौ "ज्ञातवान् पूर्वमवस्तुत्वान्न वाधुना ॥२३६॥ तस्मादयमहङ्कारो वर्त्तते यत्र गोचरे।
उक्तादन्यत्र सिद्धोऽसावात्मा शाश्वतरूपवान्॥२३७॥ 'अहं वेद्मि' इत्ययमहम्प्रत्ययो ज्ञातारं प्रतिपद्यते-इत्यत्राविवाद एव; वेद्मीति [G.97] कर्तृप्रत्ययसामानधिकरण्यात् । स च ज्ञाता भवन्त्रात्मा वा भवेत्, ज्ञानं वा भवत् परिकल्पितमेकान्तविनश्वरं क्षणिकमिति कल्पनाद्वयम्। तत्र यद्यात्मेति पक्षः, तदाखिलं चतुरस्रम्, सर्व शोभनमित्यर्थ:५ अभिमतार्थप्रसिद्धः। अथ ज्ञानमिति पक्षः, तदा सर्वमतिदुर्घटम्। तथा हि-'अहं ज्ञातवान्, अहमेव च साम्प्रतं वेद्मि' इति योऽयमेककर्तृप्रत्यवमर्शेनाहम्बुद्धिरुपजायते, तस्या विज्ञानक्षणो विषयत्वेन कल्प्यमानः-कदाचिदतीतो वा कल्प्यते, यद्वा साम्प्रतो वर्तमानः, उभौ वाऽतीतसाम्प्रतौ, यद्वा सन्ततिरिति चत्वारः पक्षाः।
तत्राद्य-अतीते ज्ञाने विषयत्वेन कल्प्यमानः 'ज्ञातवान्' इत्ययमाकारावसायो युज्यते; पूर्वं तेन ज्ञातत्वात्। सम्प्रतिं जानामीत्येतत्तु न युक्तम्; न ह्यसावतीते ज्ञानक्षण इदानीं वर्तमानकाले वेत्ति; तस्य पूर्वनिरुद्धत्वात्। अथ वर्तमानं विश्य इति द्वितीयः पक्षः, तदा वेग्रीत्येतद्युक्तम्; इदानीं तस्य वेदकत्वात् । ज्ञातवानित्येवमाकारग्रहणं तु न युक्तम्; कस्मात्? नैवासीत् प्रागिदं यतः। इदमिति वर्तमानं ज्ञानम्। अत एव-अस्या बुद्धे(मुख्येन प्रवृत्तेः, नातीतं साम्प्रतं च विज्ञानद्वयं ग्राह्यमिति सिद्धम्। न हि वर्तमानातीतावुभौ ज्ञानक्षणौ ज्ञातवन्तौ, नापि साम्प्रतं जानीतः। किं तर्हि ? एको ज्ञातवान्, अपरो जानाति। अत एव सन्तानोऽपि १. ज्ञानवान्– जै०। २. ज्ञाने-जै०।
३. च-पा०, गा०। ४. ज्ञानवान्-- जै०। ५-५. पा०, गा० पुस्तकयो स्ति। ६-६. उतातीतसाम्प्रतो-पा०, गा० । ७-७. अतीतज्ञना०-पा०, गा०।
८. ज्ञानलक्षणी-पा०, गा०।