________________
तत्त्वसंग्रहे नाशेषस्वभावविगमः, नापि नैयायिकादिपरिकल्पितात्मवद्रशेषत्वभावानुगमः, किं तर्हि ? सुखाद्यवस्था निवर्तन्ते प्रवर्त्तन्ते च, चैतन्यरूपं तु सर्वत्रानुयायीत्यतो न विरोध इति समुदायार्थः।
___ अवयवार्थस्तूच्यते-नित्यचैतन्यस्वभावस्येति। नित्यं चैतन्यं स्वभावो यस्येति विग्रहः। सर्वस्येति रूपस्येति शेषः। अनुगमोऽपि वेति । नेति प्रकृतेन सम्बन्धः। ताश्चेति सुखदुःखाद्यवस्थाः ॥ २२३-२२५ ॥
__ अथ कस्मादेकान्तेन व्यावृत्तिपक्ष एव नाश्रीयते, यथा बौद्धैर्निरन्वयविनाशवादिभिरिष्यते? एकान्तिको वाऽन्वयः, यथा नैयायिकादिभिराश्रीयते? इत्याह
स्यातामत्यन्तनाशे' हि कृतनाशाकृतागमौ।
सुखदुःखादिभोगश्च नैव स्यादेकरूपिणः ॥२२६॥ यदि हि निरन्वयो विनाशः स्यात् तदा कृतस्य कर्मणो नाशः स्यात्; कर्तुः फलानभिसम्बन्धात्। अकृताभ्यागमश्च स्यात्; अकर्तुः फलाभिसम्बन्धनात्। एकरूपत्वे चात्मनः सुखदुःखादिभोगो न स्यात्; आकांशवत्; अभोक्त्रवस्थायां विशेषाभावात् । तथा चोक्तं कुमारिलेन
"तस्मादुभयहानेन व्यावृत्त्यनुगमात्मकः। . पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत्'॥
.. (श्लो० वा०, आ० २८) इति ॥ २२६॥ ननु चोभयरूपे पुंसि याऽवस्था की न सा भोक्त्रीति तावेव कृतनाशाकृताभ्यागमाविहापि प्राप्तौ? इत्याह
न च कर्तृत्वभोक्तृत्वे पुंसोऽवस्थां समाश्रिते।
ततोऽवस्थावतस्तत्त्वात् कतैवाप्नोति तत्फलम् ॥ २२७॥ न हि पुंसः कर्तृत्वभोक्तृत्वे अवस्थां समाश्रिते, किन्तु पुरुषमेव; यस्मात् [G.96] पुमानेव करोति भुक्ते च, न त्ववस्था। ततः तस्मात्, अवस्थावत: पुरुषस्य, तत्त्वात्अपरित्यक्तपूर्वरूपत्वात्, कतैव तत्फलम् तस्य कर्मणः फलमाप्नोतीत्यदोषः ॥ २२७॥ किं पुनरस्यात्मनोऽस्तित्वै साधकं प्रमाणम्? इत्याह__ पुमानेवंविधश्चायं प्रत्यभिज्ञानभावतः।
प्रमीयते प्रबाधा च नैरात्म्यस्यामुनैव हि ॥ २२८॥ 'अहमेव ज्ञातवान्, अहमेव वेद्मि' इत्यादेरेककर्तृविषयस्य प्रत्यभिज्ञानस्य भावतः सत्त्वात्, आत्मा प्रसिद्धः। अमुनैव च प्रत्यभिज्ञानेन बौद्धादिपरिकल्पितस्य नैरात्म्यस्य बाधापि सिद्धा। यथोक्तम्
"तेनास्मात् प्रत्यभिज्ञानात् सर्वलोकावधारितात्। नैरात्म्यवादबाध: स्यात्"॥ (श्लो० वा०, आ० १३६) इति ॥ २२८॥ कथं पुनः प्रत्यभिज्ञानप्रत्ययत एतद् द्वयं प्रसिध्यति? इत्याह
___ अहं वेद्यीत्यहम्बुद्धिर्ज्ञातारं प्रतिपद्यते। १ १. स्यातां हत्यन्तनाशेऽस्य-पा०. गा० ।
२. तस्मात्, (तस्य)-गा।