________________
आत्मपरीक्षा
॥ २२० ॥
यच्चोक्तम्—अथात्मशब्दोऽनित्यविषय' इत्यादिपक्षद्वयम्, तदप्यसङ्गतमेव; अनभ्युपगमात्। न ह्यात्मशब्दस्य कश्चित् परमार्थेन विषयोऽभ्युपगतः । नापि रूपादिव्यतिरिक्तः, न चापि नित्यशब्दस्य परमार्थेन क्वचिन्नित्ये वस्तुनि वृत्तिः सिद्धा, येन व्यभिचारः स्यात् । नापि शरीरादिष्वात्मशब्दस्योपचाराद् वृत्तिः; अस्खलद्गतित्वादित्युक्तम्. अतो न प्रसिद्धसाधनम्
८७
इत्थमात्माप्रसिद्धौ च प्रक्रिया तत्र या कृता ।
निरास्पदैव सा सर्वा वन्ध्यापुत्र इव स्थिता ॥ २२१ ॥
तदेवमात्माख्यस्य धर्मिणः प्रमाणव्याहतत्वेनाप्रसिद्धत्वात् तत्र या कर्तृत्वभोक्तृत्वादिप्रक्रिया भवद्भिरुपचरिता, सा वन्ध्यापुत्र इव निरास्पदेति न पृथग्दूषणमस्याः क्रियते; आश्रयनिराकरणेनैवास्याः प्रतिक्षप्तत्वात् ।
कृतनाशाकृताभ्यागमदोषश्च यथा न भवति तथा कर्मफलसम्बन्धपरीक्षायां प्रतिपादयिष्यते ॥ २२१ ॥
इति नैयायिकवैशेषिकपरिकल्पितात्मपरीक्षा ॥
२. मीमांसकपरिकल्पितात्मपरीक्षा
मीमांसकपरिकल्पितात्मनिराकरणमाहव्यावृत्त्यनुगमात्मानमात्मानमपरे
पुन: ।
चैतन्यरूपमिच्छन्ति चैतन्यं बुद्धिलक्षणम् ॥ २२२ ॥
व्यावृत्तिः = सुखदु:खाद्यवस्थानां परस्परतो भेदः २, अनुगमः = चैतन्यद्रव्यत्वसत्त्वादीनामनुवृत्तिः, तावेतौ व्यावृत्त्यनुगमावात्मा स्वभावो यस्येति विग्रहः । एतदुक्तं भवतिसुखादिरूपेण व्यावृत्तं सत्त्वादिरूपेणानुगतमात्मानं चिद्रूपमपरे जैमिनीया वर्णयन्ति । तच्च चैतन्यं न बुद्धिव्यतिरेकेणान्यत्, यथा साङ्ख्यैरिष्यते, किं तर्हि ? बुद्धिरेवेति दर्शयतिचैतन्यं बुद्धिलक्षणमिति । बुद्धिलक्षणम्, बुद्धेः स्वरूपमत्यिर्थः । बुद्धिव्यतिरेकेणापरस्य चिद्रूपत्वाप्रतीतेरिति भावः ॥ २२२॥
कथं पुनरेकस्यात्मनः परस्परविरुद्धं व्यावृत्त्यनुगमात्मकं स्वभावद्वयं युज्यते ? इत्याह'यथाऽहेः कुण्डलावस्था व्यपैति तदनन्तरम् । सम्भवत्यार्जवावस्था सर्पत्वं त्वनुवर्त्तते ॥ २२३ ॥ तथैव नित्यचैतन्यस्वभावस्यात्मनोऽपि न । निःशेषरूपविगमः सर्वस्यानुगमोऽपि वा ॥ २२४ ॥ किन्त्वस्य विनिवर्त्तन्ते सुखदुःखादिलक्षणाः । अवस्थास्ताश्च जायन्ते चैतन्यं त्वनुवर्त्तते ॥ २२५ ॥ [G.95] यथा किलाहेः=सर्पस्यैकस्यापि सतः कुण्डलावस्थानिवृत्तावार्जवावस्थाप्रादुर्भावः, सर्पत्वं पुनरवस्थाद्वयेऽप्यनुवर्त्तते; तथाऽऽत्मनोऽपि नित्यचैतन्यस्वभावस्यैकस्यापि सती
१. ० अनित्यत्वविषय- पा०, गा० ।
२. भेदा:- पा०, गा ।