________________
८६
तत्त्वसंग्रहे
इत्यादि । तस्माद्येन प्रकारेण, आत्मानधिष्ठितत्वेन वा तदुपभोगानायतनत्वेन वा तेषु घटादिषु बाह्येषु सर्वेषु साधारणं नैरात्म्यं भवतामपि प्रसिद्धम् । यच्च जीवच्छरीरे भवद्भिर्निषिध्यतेनेदं निरात्मकं जीवच्छरीरमिति, यस्य निषेधाजीवच्छरीरमेव सात्मकमुपगम्यते, न मृतशरीरघटादय इति, तदेवास्माभिः प्रसाध्यते-निरात्मकं जीवच्छरीरं वस्तुत्वादिभ्य इति। तस्मात् 'आत्मनोऽनुपकारकम्' इत्यादिविकल्पोऽनास्पद एव;भवतामपि नैरात्म्यस्य प्रसिद्धत्वात् ।
किञ्च-यत्तावदुक्तमात्मानुपकारित्वसिद्धौ-'न दृष्टान्तोऽस्ति' इति, तदसम्यक्; तथा हि-शक्यमेवं प्रसाधयितुम्-यो यस्य स्वभावातिशयं नाधत्ते नासौ तस्योपकारी, यथाविन्ध्यो हिमवतः। नादधते' चात्मनो नित्यैकरूपस्य स्वभावातिशयं शरीरादय इति, व्यापकानुपलब्धेः। न चासिद्धो हेतुः; स्वभावातिशयस्यांत्माव्यतिरिक्तत्वात् । तदाधाने सत्यात्मन एवाऽऽधानं स्यात्, ततश्चानित्यत्वप्रसङ्गः। व्यतिरेके च स्वभावातिशयस्य सम्बन्धनिबन्धनाभावात् 'तदीयोऽसौ' इति सम्बन्धो न सिध्येत्। तस्मानित्यस्यं न कश्चिदुपकारी सम्भवति; तस्य तत्राकिञ्चित्करत्वात्।
· यच्चोक्तम्-'कस्य चात्मा शरीरम्' इति, तदप्यसम्यक् सन्ति हि केचिदेवंविधा ये शरीरादीनात्मपरिणामरूपान् वर्णयन्ति, यथा-उपनिषद्वादिनः । अतस्तान् प्रति प्रतिषिध्यते ।
यच्चोक्तम्-'उत्तरपदार्थविषयत्वान्निसः किं सात्मकमिति वाच्यम्' इति, तदप्यसङ्गतम्; न ह्यतरपदार्थः सन्नेव निषिध्यते, किं तर्हि ? समारोपितः; सतः प्रतिषेद्धमशक्यत्वात्। ततश्च योऽसौ परेण भ्रान्त्या समारोपितोऽर्थः स एवोत्तरपदार्थो भवति; यतस्तमेवानूद्य परस्य मिथ्याज्ञानत्वमाख्यापयितुं प्रतिषेधः क्रियते। अन्यथा हि 'अक्षणिकाः प्रदीपादयः' इत्यादौ बौद्धपरिकल्पितक्षणिकत्वनिषेधे भवता क्रियमाणे चोद्यमेतदापतत्येव-न ह्यसत्युत्तरपदे नञः प्रयोगं पश्याम इति।
___ यच्चोक्तम्-'कस्य वा शरीर आत्मा विद्यते' इति, तदप्यसम्यक्; तथा हि येषां दर्शनम्-अङ्गष्ठपर्वार्धश्यामाकादिफलप्रमाण आत्मेति, तेषां मतेनात्मनो मूर्त्तत्वाच्छरीरस्थितिरस्त्येवेति, तान्प्रति प्रतिषेधो युज्यत एव। ..
यच्योक्तम्-'शरीरस्यात्मसम्बन्धित्वनिषेधे दृष्टान्तो नास्ति' इति, तदसिद्धम्; परस्परमुपकार्योपकारकत्वाभावाद्विन्ध्यहिमवतोरिव नात्मशरीरयोः सम्बन्धोऽस्तीति पूर्ववत् प्रसाधयितुं शक्यत्वात्।
यच्चोक्तम्-'विशेषप्रतिषेधाच्च सामान्यं गम्यते' इति, तदनेकान्तम्; भवद्भिः प्रदीपादीनां क्षणिकत्वप्रतिषेधेऽपि कस्यचित् क्षणिकत्वसामान्येनानभ्युपगमात्। [G.94] अथापि स्यात्-इष्यत एबास्माभिरचिरकालावस्थायित्वनिबन्धना प्रदीपादौ क्षणिकशब्दप्रवृत्तिः, अतः सामान्येन क्षणिकत्वं सिद्धमेवेति? यद्येवम्; आत्मशब्दप्रवृत्तिरप्यस्माभिरहङ्कारसन्निसते चेतसीष्टैवेति सिद्ध: सामान्येनात्मा।
१. नाधते-पा०, गा०। २. जै.. पा० पुस्तकयो स्ति। एवमग्रेऽपि । ३. संमिश्रिते-पा० गा.