________________
आत्मपरीक्षा
समवायित्वेन क्रमोत्पतेर्व्याप्तत्वात् । सन्निहिताविकलकारणत्वाद्युगपदुत्पत्तिप्रसङ्गो विपर्यये बाधकं प्रमाणम्। ..
अथ वा-ये वस्तुत्वकृतकत्वोत्पत्तिमत्त्वादिधर्मोपेताः, ते सर्वे निरात्मानः; यथाबाह्या घटायः। वस्तुत्वादिधर्मोपेताश्चाध्यात्मिका जीवच्छशरीरमनोबुद्धिदुःखसुखादय इति स्वभावहेतुः ॥ २१७-२१८॥ कथं पुनरत्र व्याप्तिः सिद्धा? इत्याह
[G.92] सात्मकत्वे हि नित्यत्वं तद्धेतूनां प्रसज्यते।
नित्याश्चार्थक्रियाऽशक्ता नातः सत्त्वादिसम्भवः ॥२१९॥ यदि सात्मकत्वम् आत्माधिष्ठितत्वं देहादीनां भवेत्, तदैषामात्मा हेतुः स्यात्। न ह्यकारणमधिष्ठाता युक्तः; अतिप्रसङ्गात्। ततश्च तद्धेतूनाम् आत्महेतुकानां शरीरादीनामविकलकारणतया नित्यत्वम् अक्रमित्वं प्रसज्येत।
स्यादेतद्-यदि नाम नित्यत्वमेषां प्रसक्तम्, तथापि वस्तुत्वादिकमनुवृत्तमेव? इत्याह-नित्याश्चेदित्यादि। नित्याश्च सन्तः शरीरादयोऽर्थक्रियायामशक्ताः। प्रसज्यत इति प्रकृतमर्थाद्वचनपरिणामेन सम्बध्यते; नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति भावः । अर्थक्रियासामर्थ्य निवृत्तौ च वस्तुत्वनिवृत्तिः; अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः । वस्तुत्वनिवृत्तौ सत्त्वादीनामपि वस्तुधर्माणां निवृत्तिरिति सिद्धा व्याप्तिः ॥ २१९ ॥
उद्द्योतकरस्त्वाह-“अथ निरात्मकमिति कोऽर्थः साध्यत्वेनेष्ट:? यदि तावदात्मनोऽनुपकारकमिति? न दृष्टान्तोऽस्ति । न हि किञ्चिदात्मनोऽनुपकारकमस्ति । अथात्मप्रतिषेधः-आत्मा शरीरं न भवतीति? कस्य चात्मा शरीरम् । उत्तरपदविषयत्वाच्च निसः किं सात्मकमिति वाच्यम् ? न ह्यसत्युत्तरपदे निसः प्रयोगं पश्यामः, यथा निर्मक्षिकमिति । अथ शरीर आत्मा प्रतिषिध्यते? सिद्धं साधयसि। कस्य वा शरीर आत्मा विद्यते? अथ शरीरमात्मसम्बन्धि न भवतीति? पुनर्दृष्टान्तो नास्ति। सर्वे चैते विशेषप्रतिषेधाः, विशेषप्रतिषेधाच्च सामान्यं गम्यते । एवं सति यत्प्रतिषेद्धव्यं तदभ्यनुज्ञातं भवति। अथात्मशब्द: शब्दत्वादनित्यविषय इति साध्यते? तथापि नित्यशब्देनानैकान्तिकः। शरीरादीनां चोपचारादात्मवाच्यत्वात् सिद्धसाधनम्। अथ शरीरादिव्यतिरिक्तानित्यपदार्थविषयत्वेनानित्यविषय आत्मशब्दः साध्यंते? तथापि रूपादिव्यतिरिक्तविषयाभ्युपगमाद्विरोध:" ( ) इति। तदेतत् प्रतिविधत्ते
घटादिषु समानं च यन्नैरात्म्यं निषिध्यते।
परैर्जीवच्छरीरेऽस्मिस्तदस्माभिः प्रसाध्यते॥२२०॥ तदेतद्भवतोऽपि तुल्यं चोद्यम्। तथा हि-घटादिषु बाह्येषु आत्मानधिष्ठितत्वेन तदुपभोगानायतनत्वेन वा नैरात्म्यं भवद्भिरपीष्यत एव; अन्यथा नेदं निरात्मकं [G.93] जीवच्छरीरमप्राणादिमत्त्वप्रसङ्गाद् घटादिवदिति प्रसङ्गे दृष्टान्तत्वेन तेषामुपादानं न स्यात्। ततश्च तत्रापि घटादिषु तुल्यं चोद्यम्-'कथमेषां नैरात्म्यं यदि तावदात्मनोऽनुपकारकम्' १-१. आत्मसम्बन्धेन-पा०। २. यवैरात्मा-पा०। ३. जीवशरीर०-पा०, गा० ।