________________
तत्त्वसंग्रहे
गौरवर्णादिनिर्भासो व्यक्तं तत्र तु विद्यते ।
तत्स्वभावो न चाऽऽत्मेष्टो नायं तद्विषयस्ततः ॥ २१४ ॥
व्यक्तमिति । स्पष्टम्; अस्खलद्वृत्तित्वात् । ततश्च यदुक्तमुद्द्योतकरप्रभृतिभिः - 'उपभोगायतने शरीरेऽयमात्मोपचारः, यथा - - अनुकूले भृत्ये राजा ब्रूते - य एवाहं स एवायं मे भृत्यः " इति, तदपास्तं भवति । यथा हि - यद्ययं गौणः स्यात्, तदास्खलद्वृत्तिर्भवेत् । न हि लोके सिंहमाणवकयोर्मुख्यारोपितयोर्द्वयोरपि 'सिंह: ' इत्यस्खलिता बुद्धिर्भवति । 'मदीयाः शरीरादयः' इति व्यतिरेकदर्शनात् स्खलद्वृत्तिरहङ्कारः शरीरादिष्विति चेत् ? न; आत्मन्यपि स्खलद्वृत्तित्वप्रसङ्गात् । तत्रापि हि मदीय आत्मेति व्यतिरेको दृश्यते । कल्पितोऽत्र भेद इति चेत् ? इतरत्रापि समानमस्तु । तर्हि 'गौरोऽहम्' इत्यादिप्रत्ययो मुख्यः, तथापि कस्मादात्माऽस्य [G.91] विषयो न भवति ? इत्याह- तत्स्वभाव इति । गौरादिस्वभाव:; तस्य रूपादिगुणासम्भवात् ॥ २१४॥
एवं तावत् ‘तदाकारशून्यत्वान्नात्मविषयोऽहङ्कारो युक्तः' इति वर्णितम् । तत्र विवादाभावप्रसङ्गाच्च न युक्त इति दर्शयति
८४
44
यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् । तत्किमर्थं विवादो ऽयं तत्सत्त्वादौ प्रवर्त्तते ॥ २१५ ॥
तस्यात्मनः सत्त्वनित्यत्वविभुत्वादौ ॥ २१५ ॥
स्यादेतद्-यथा भवतां प्रत्यक्षीकृतेऽपि नीलादौ तत्स्वभावाव्यतिरिक्ते' क्षणिकत्वादौ विवादः प्रवर्त्तते, तथाऽऽत्मन्यपि भविष्यति ? इत्याह
तथा हि निश्चयात्माऽयमहङ्कारः प्रवर्त्तते । निश्चयारोपबुद्धयोश्च बांध्यबाधकता स्थिता ॥ २१६ ॥
युक्तो हि नीलादौ प्रत्यक्षेण गृहीतेऽपि तदव्यतिरिक्ते क्षणिकत्वादौ विवादः; तस्य प्रत्यक्षस्य निर्विकल्पत्वेनानिश्चयात्मकतया क्षणिकत्वादेरनिश्चितत्वात् । न च निश्चयेन विषयीकृते वस्तुनि तद्विपरीताकारग्राहिणः समारोपप्रत्ययस्य प्रवृत्तिरस्ति, येन विवादो भवेत्; . तयोः सहावस्थायित्वेन बाध्यबाधकभावात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत् तन्निश्चयनं ते चेन्न निश्चिन्वन्ति, न गृह्णन्त्येवेति प्राप्तम् ॥ २१६ ॥
तदेवं परपक्षं निराकृत्य स्वपक्षं स्थापयन्नाह -
तस्मादिच्छादयः सर्वे नैवात्मसमवायिनः । क्रमेणोत्पद्यमानत्वाद् बीजाङ्कुरलतादिवत् ॥ २१७॥
अथ वाऽऽध्यात्मिकाः सर्वे नैरात्म्याक्रान्तमूर्त्तयः । वस्तुसत्त्वादिहेतुभ्यो यथा बाह्या घटादयः ॥ २९८ ॥
प्रयोगः–ये क्रमेणोत्पद्यन्ते ते नात्मसमवायिनः, यथा - बीजाङ्कुरलतादयः । क्रमेणोत्पद्यन्ते च सुखादय इति विरुद्धव्याप्तोपलब्धेः । आत्मसमवायित्वविरुद्धेनानात्म
१. तत्स्वभावाव्यति क्षणि०- पा० ।
२. ० निश्चायकतया— पा०, गा० ।