________________
आत्मपरीक्षा सम्बन्धान्तरमस्ति । तस्मात् सम्बन्धरहिताः प्राणादयः किमिति तनो: शरीराज्जीवनविशिष्टाद् विनिवर्तन्ते! नैव तेनानैकान्तिको हेतुरिति भावः। एतेनेच्छाद्वेषप्रयत्नसुखदुःखज्ञानादीनि यान्यात्मलिङ्गत्वेन परैरुक्तानि, तानि प्रतिषिद्धानि द्रष्टव्यानि; सम्बन्धासिद्धेः । प्रयोगः-'ये यत्र न प्रतिबद्धास्ते तस्य गमका न भवन्ति, यथा तिलादेर्बलाकादयः। न प्रतिबद्धाश्च प्राणादय आत्मनीति व्यापकानुपलब्धिः। न चासिद्धो हेतुः; पूर्वं द्विविधस्यापि सम्बन्धस्य निरस्तत्वात् । न चाप्यनैकान्तिकः; सर्वस्य सर्वगमकत्वप्रसङ्गात् । न चापि विरुद्धः; सपक्षे भावादिति। .
___ यश्चाप्याह-"कर्तुः प्रसिद्धिः करणप्रसिद्धः" ( )इति, तदसिद्धम: न हि चक्षुरादीनां परमार्थेन करणत्वं सिद्धम्, विज्ञानोत्पत्तौ सर्वेषां हेतुभावस्य तुल्यत्वात्। स्वेच्छामात्रपरिकल्पितत्वाच्च कर्तृकरणव्यवहारस्येति। कर्तृत्वमात्रसाधने सिद्धसाध्यता; परिकल्पितस्यानिरस्तत्वात् । पारमार्थिककर्तृत्वसाधनेऽनैकान्तिकता; तथाभूतेन का क्वचिदपि चक्षुरादीनां प्रतिबन्धसिद्धेः ॥ २०९-२१०॥
यच्चोक्तम्- "सद्योजाताद्यविज्ञान" (तत्त्व० १८५) इत्यादि, तत्राह_ एवं च साधनैः सर्वैरांत्मसत्त्वाप्रसिद्धितः।।
नित्यव्यापित्वयोरुक्तं' साध्यहीनं निदर्शनम् ॥ २११॥ 'आद्यज्ञानवत्, मदीयशरीरवत्' इति यदेतन्निदर्शनमुक्तम्, तद्यथोक्तसाध्य-[G.90] धर्मविकलम् आत्मनोऽसिद्धत्वात्। अतोऽनैकान्तिकता हेतोः ॥ २२१॥
अन्यरित्यादिना पुनरप्युट्योतकर-भाविविक्तादेर्मतमाशङ्कते.अन्यैः प्रत्यक्षसिद्धत्बमात्मनः परिकल्पितम्।
स्वसंवेद्यो यहङ्कारस्तस्यात्मा विषयो मतः ॥२१२॥ ते ह्येवमाहुः-:"प्रत्यक्षत एवात्मा सिद्धः, तथा हि-लिङ्गलिङ्गिसम्बन्धस्मृत्यनपेक्षम् 'अहम्' इति ज्ञानं रूपांदिज्ञानवत् प्रत्यक्षम्। अस्य च न रूपादिर्विषयः; तद्विज्ञानभिन्नप्रतिभासत्वात्। तस्मादन्य एव विषयः" इति ॥ २१२॥ तदयुक्तमित्यादिना प्रतिविधित्ते
तदयुक्तम्; अहङ्कारे तद्रूपानवभासनात्। असिद्धमहङ्कारस्यात्मविषयत्वम्; तदाकारशून्यत्वात्। प्रयोगः-यद्यदाकारशून्यं न तत्तद्विषयम्', यथा-चक्षुर्ज्ञानं न शब्दविषयम्। आत्माकारशून्यं च 'अहम्' इति ज्ञानमिति व्यापकानुपलब्धिः। न चायमसिद्धो हेतुरिति दर्शयति
न हि नित्यविभुत्वादिनि सस्तत्र लक्ष्यते ॥ २१३॥ तथा हि-नित्यविभुत्वचेतनत्वादिगुणोपेत आत्मेष्यते, न चात्राहम्प्रत्यये नित्यत्वादिप्रतिभासो लक्ष्यते; किन्तु गौरोऽहं मन्दलोचनः परिकृशस्तीव्रवेदनाभिन्नः-इत्यादिदेहावस्थासंस्पर्शेनोत्पत्तेर्गौरवर्णादिलक्षणः प्रतिभासः प्रतीयते। तस्माद्देहाद्यवस्थासंस्पर्शेनोत्पद्यमानोऽहङ्कारो देहाद्यालम्बन एवेति ज्ञायते ।। २१३ ॥
६. 'व्यापित्वयो'- इति पा० पुस्तके नास्ति।
२. तद्विषयम-- पा० गा० ।