________________
तत्त्वसंग्रह तस्योभयप्रसिद्धः शरीरादिवाचकव्यतिरिक्तत्वे सत्येकपदत्वमस्ति। न च शरीरादिव्यतिरिक्तवस्तुविषयत्वमपीत्यनैकान्तिको हेतुः ॥ २०५ ।। कथं पुनः कारकादिपदं नीरूपाख्ये शक्यं नियोक्तुम् ? इत्याह- .
संकेतमात्रभाविन्यो वाचः कुत्र न सङ्गताः! स्वतन्त्रेच्छामात्रभावी हि सङ्केतः, तन्मात्रवाचिन्यश्च वाचः; तत्कथमासां क्वचिदपि प्रवृचिप्रसररोधो भवेत्!
अथापि स्याद्-'असामयिकैकपदत्वात्' इत्ययं हेत्वर्थो विवक्षितः, तेन व्यभिचारो न भविष्यति? इत्याह
__ नैवात्मादिपदानां च प्रकृत्याऽर्थप्रकाशनम्॥ २०६॥
न हि सङ्केतमन्तरेण शब्दानां प्रकृत्याऽर्थप्रकाशनमस्ति; अव्युत्पन्नस्यापि ततोऽर्थप्रतीतिप्रसङ्गात्। स्वेच्छया च नियोगाभावप्रसङ्गात्, सङ्केतवैयर्थ्यप्रसङ्गाच्च । तस्मादात्मादिपदानां नैव प्रकृत्याऽर्थप्रकाशनं सिद्धमित्यसिद्धो हेतुः। अथाविशेषास्पदपदार्थान्तर्भूतज्ञेयविषयत्वे सतीत्यपरं विशेषणमुपादीयते । यथोक्तं भाविविक्तेन-"एवमपि यथोक्तविशेषणासिद्धरसिद्धो हेतुर्व्याप्त्यभावाच्चानैकान्तिकः" ( )॥ २०६॥ यच्चोक्तम्-"प्राणादिभिर्वियुक्तश्च" (तत्त्व० १८४) इत्यादि, तत्राह
प्राणादीनां च सम्बन्धो यदि सिद्धः सहात्मना। भवेत्तदा प्रसङ्गोऽयं युज्यतेऽसङ्गतोऽन्यथा ॥ २०७॥ न वन्ध्यासुतशून्यत्वे जीवद्देहः . प्रसज्यते।
प्राणादिविरहे ह्येवं तवाप्येतत् प्रसञ्जनम् ॥२०८॥ यदि हि प्राणादीनामात्मना सह तादात्म्यलक्षणः, तदुत्पत्तिलक्षणो वा कश्चित् सम्बन्धः सिद्धो भवेत्, तदात्मनिवृत्तौ शरीरे प्राणादिनिवृत्तिप्रसङ्गो युक्तिमान् भवेत् । अन्यथा [G.89] ह्यप्रतिबद्धस्य निवृत्तावन्यनिवृत्तिप्रसङ्गोऽसङ्गत एव स्याद्; अतिप्रसङ्गात्। न हि वन्ध्यापुत्रनिवृत्तौ तदसम्बद्धानां प्राणादीनां निवृत्तिर्भवति । तस्माद्यथा 'वन्ध्यासूनुनिवृत्तौ तदसम्बद्धानिवृत्तौ तदसम्बद्धानामपि प्राणादीनां निवृत्तिः प्राप्नोति, घटादिवत्' इति केनचित् प्रसङ्गापादनं क्रियमाणमनैकान्तिकं भवति, एवं तवाप्येतदात्मनिवृत्तौ प्राणादिनिवृत्तिप्रसञ्जनमनैकान्तिकमेव; सम्बन्धासिद्धेरिति भावः ॥ २०७-२०८ ॥ कथं पुनः सम्बन्धासिद्धिः? इत्याह
न तावदिह तादात्म्यं भेदाङ्गीकरणात् तयोः। कार्यकारणता नापि यौगपद्यप्रसङ्गतः॥२०९॥ तदात्मनो निवृत्तौ हि तत्सम्बन्धविवर्जिताः।
किममी विनिवर्तन्ते प्राणापानादयस्तनोः ॥२१०॥ , भेदाङ्गीकरणात्तयोरिति । तयोः=आत्मप्राणादिकयोर्न तादात्म्यलक्षणः सम्बन्धोऽस्ति; स्वभावभेदाभ्युपगमात् । तथा हि-अनित्या अव्यापिनो मूर्त्ताश्च प्राणादयः, तद्विपरीतस्त्वात्मा। नापि तदुत्पत्तिलक्षणः; प्राणादीनामविकलकारणत्वेन यौगपद्यप्रसंङ्गात्। न चैतव्यतिरेकेण