________________
८१
आत्मपरीक्षा अथापि स्याद्-अस्माभिरेवंविध एव कल्पितैकत्वः साध्योऽभिप्रेतः, तेन' साध्यविकलता दृष्टान्तस्य न भवति? इत्याह
साध्योऽप्येवंविधोऽभीष्टो यदि सिद्धप्रसाधनम्॥२०१॥ एवं हि सिद्धसाध्यता; पूर्वापरीभूतानां संस्काराणामेकप्रत्ययनिमित्तानेकसत्त्वप्रज्ञप्तिविषयत्वात् ॥ २०१॥ यच्चोक्तम्-'बुद्धिन्द्रियादि' (तत्त्व० १८२) इत्यादि, अत्राह
बुद्धिचित्तादिशब्दानां व्यतिरिक्ताभिधायिता।
नैवैकपदभावेऽपि पर्यायाणां समस्ति नः॥२०२॥ एकपदत्वादित्यनैकान्तिको हेतुः । तथा हि-बुद्धिश्चित्तं ज्ञानमिन्द्रियमक्षं वेदना चित् तनुः कायः शरीरम्-इत्यादीनां बुद्धीन्द्रियवेदनाशरीरपर्यायाणामेकपदत्वेऽपि नास्मन्मतेऽस्ति तद्व्यतिरिक्तपदार्थाभिधायितेति ततो विपक्षाव्यावृत्त्यसिद्धेरनैक़ान्तिकत्वम् ॥२०२॥
अतोऽनैकान्तिको हेतुर्ननूक्तं तद्विशेषणम्। उच्यते नैव सिद्धं तच्चेत:पर्यायतास्थितेः॥२०३॥ अहङ्काराश्रयत्वेन चित्तमात्मेति । गीयते।
संवृत्त्या; ननु चेदमेवाशङ्कय–'सिद्धपर्यायभिन्नत्वे सति' इति तस्य हेतोर्विशेषणमुक्तम्, तत्कथमनैकान्तिकता भवति? तदत्राभिधीयते-असिद्धमेतद्धेतुविशेषणम्, कस्मात् ? चेतःपर्यायतास्थितेः। आत्मेत्येतस्य चितपर्यायत्वव्यवस्थानात् । यथोक्तम्--"चित्तमेवाहङ्कारसंश्रयत्वादात्मेत्युपचर्यते" ( ) इति। आत्मेत्युपंचर्यते, व्यवह्रियत इत्यर्थः।
तेन यदुक्तमुद्द्योतकरेण-"मुख्यासम्भवादुपचारो न युक्तः" ( ) इति, तदभिप्रायापरिज्ञानादिति ग्रहीतव्यम् । एतदेव गीयतइत्यनेन स्पष्टयति। तस्मादप्रसिद्धविशेषणोरे हेतुः । एतच्च संवृत्त्या सविषयत्वमुपगम्यास्य हेतोरनैकान्तिकत्वमुक्तम् ॥२०३॥ ..
यदि तु परमार्थेन बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वं प्रसाध्यते, तदा व्याप्तेरनुमानबाधितत्वादयुक्त एवायं हेतुरिति दर्शयन्नाह
.. . वस्तुवृत्त्या तु विषयोऽस्य न विद्यते॥२०४॥ अध्यारोपितार्थविषयत्वात् सर्वस्यैव शाब्दस्य व्यवहारस्येति पश्चात् [G.88] प्रतिपादयिष्यते। तेनास्यात्मशब्दस्य विषयो नास्त्येवेति कथं हेतोः साध्येन व्याप्तिर्भवेदिति भावः ॥२०४॥ सविशेषणोऽप्यनैकान्तिको हेतुरिति दर्शयन्नाह__ नभस्तलारविन्दादौ यदेकं विनिवेश्यते।
कारकादिपदं तेन व्यभिचारोऽपि दृश्यते॥२०५॥ यदा हि गगनकुसुमादावत्यन्ताभावेन केनचित् कारकादिपदं निवेश्यने, तदा १. पा० पुस्तके नास्ति: अत:-गा।
२. ०दसिद्ध०-पा०, गा०। ३. यथा-पा०, गा०।