________________
तत्त्वसंग्रहे स्यात्, तदा क्रमभावित्वमेषां विरुध्येत; अविकलकारणत्वेन युगपदेवोत्पादप्रसङ्गात्। न चापि नित्यस्य परापेक्षाऽस्ति; तस्य केनचिदनुपकार्यत्वात्॥१९॥
किञ्च–सामान्येन कारणपूर्वकत्वमात्रं प्रसाध्यते तदा सिद्धसाध्यतेति [G.86] दर्शयति
एकानन्तरविज्ञानात् षड्विज्ञानसमुद्भवः।
युगपद् देद्यते व्यक्तमत इष्टप्रसाधनम्॥१९८॥ - यत एकस्मादनन्तरविज्ञानात् समनन्तरप्रत्ययात् षण्णां चक्षुरादिविज्ञानानामुत्पादः स्पष्टं संवेद्यते। तथा हि-यदैव नर्तकीरूपं पश्यति तदैव मुरजादिशब्दं शृणोति, कुवलयादिगन्धं च जिघ्रति, कर्पूरादिरसमास्वादयति, व्यजनानिलादिस्पर्श चानुभवति, वस्त्रादि च मनसाऽऽदातुं चिन्तयति।
न चालातचक्रदर्शनवत्तदृष्टिराशुसञ्चारादिति युक्तं वक्तुम् अस्पष्टप्रतिभासितत्वप्रसङ्गात्। तथा हि- दर्शनानां प्रतिसन्धानादयं सकृद्ग्रहाभिमानो भवता वर्ण्यते, प्रतिसन्धानं च स्मृत्या क्रियते, सा चातीतविषयत्वादस्पष्टा, स्पष्टश्चायं सकृद्रूपादिप्रतिभासः संवेद्यते। किञ्च-सरः, रस इत्यादौ सुतरामाशु सकारादिवर्णग्राहिणां ज्ञानानामुदयोऽस्तीति, अत्रापि सकृद्ग्रहाभिमानः स्यात्, ततश्च न क्वचित् क्रमो व्यवसीयेत । एतच्च पश्चाद्विस्तरेण प्रतिपादयिष्यते। इह तु 'व्यक्तम्' इति वचनात् परिहारदिक् प्रदर्शितैव ॥ १९८॥
अथ नित्यैकरूपदार्थहेतुत्वादेषामेकनिमित्तत्वं प्रसाध्यते, तदा व्याप्तेरनुमानबाधा? इति दर्शयति-
. क्रमिणां त्वेकहेतुत्वं नैवेत्युक्तमनन्तरम्।
अतोऽनुमानबाधाऽस्मिन् व्याप्तेर्व्यक्तं समीक्ष्यते॥१९९॥ अनन्तरमिति। 'एकानुगामि' (तत्त्व० १९७) इत्यादिना। तत्रेदं बाधनम्- ये सन्निहिता अप्रतिबद्धसामर्थ्यकारणास्ते युगपदेव भवन्ति, यथा-समग्रसामग्रीकाः सकृद्भाविनोऽङ्करादयः । सन्निहिताप्रतिबद्धसामर्थ्यकारणाश्च देवदत्तस्य रूपादिविषयाः प्रत्यया इति स्वभावहेतुः । न चैवं सम्भवति, तस्माद्विपर्ययः ॥ १९९॥ दृष्टान्तस्यापि साध्यकलतेति दर्शयति
नर्तकीभ्रूलताभङ्गो नैवैकः परमार्थतः।
अनेकाणुसमूहत्वादेकत्वं तस्य कल्पितम्॥२००॥ न हि नर्तकीभ्रूलतादिरेकोऽस्ति; तस्यानेकाणुसमूहत्वात्। यद्येवम्, कथमेकशब्दविषयत्वं तस्य भवति? इत्याह- एकत्वं तस्य कल्पितमिति ॥ २०० ॥ [G.87) अथ कल्पानायाः किं निबन्धनम् ? इत्याह
एककार्योपयोगित्वादेकशब्दस्य गोचरः। यस्मादसौ भ्रूलताभङ्ग एकस्मिन् कार्ये चक्षुर्विज्ञानादिक उपयुज्यते, तस्माद्भित्रोऽप्येकशब्दविषयो भवति।