________________
आत्मपरीक्षा
७९ कारणसमानदेशोत्पादनं तत्। अयं द्विविधोऽपि प्रकार इच्छादीना न सम्भवतीति न तेषां कश्चिदाधारो युक्तः ॥ १९३ ।। __यच्चापि 'वस्तुत्वे सति' इति विशेषणम्, तदनर्थकमेव; व्यवच्छेद्याभावादिति दर्शयन्नाह
नीरूपस्य च नाशस्य कार्यत्वं नैव युक्तिमत्।
अतो विशेषणं व्यर्थं हेतावुक्तं परैरिह॥१९४॥ [G.85] यदि हि विनाशस्य कार्यत्वं सम्भवेत्, तदा तद्व्यवच्छेदाय 'वस्तुत्वे सति' इति विशेषणं सार्थकं भवेत्; यावता तस्यावस्ततुया हेतुभिर्न किञ्चित् क्रियत इति कथं हेतुमत्ता भवेत् ! प्रयोगः- यदवस्तु न तत् कस्यचित् कार्यम्, यथा- शशविषाणम्। अवस्तु च नाश इति व्यापकविरुद्धोपलब्धेः । कार्यत्वे सति वस्तुत्वप्रसङ्गः सुखादिवत्-इतीदमत्र बाधकं प्रमाणम्।
. किञ्च-अभ्युपगमविरोधो भवताम्। तथा हि-कार्यमित्यात्मलाभाख्यात् स्वकारणसमवायात् सत्तासमवायाद्वाऽभिधानप्रत्ययौ भवतः । न च विनाशस्य द्रव्यादिस्वभावरहितस्य स्वकारणे समवायोऽस्ति, तत्र वा सत्तायाः; तस्य नीरूपत्वात्। अन्यथा ह्यसौ द्रव्यादिवदाश्रितोऽपि स्याद्, वस्तु चेति न हेतुविशेषणेन व्यवच्छेद्यो भवेत् । अतः 'वस्तुत्वे सति' इति विशेषणं व्यर्थम् ॥ १९४॥ .
'रूपादिप्रत्ययाः (तत्त्व० १८०) इत्यादावाह. मयेति प्रतिसन्धानमविद्योपप्लवादिदम्। . क्षणिकेष्वपि भावेषु' कर्वेकत्वाभिमानतः ॥१९५॥
मिथ्याविकल्पतश्चास्मान्न युक्ता तत्त्वसंस्थितिः। _ 'मया दृष्टम्', 'मया श्रुतम्' इत्येव यदेकज्ञातृनिमित्तत्वेन प्रत्ययानां घटनलक्षणं प्रतिसन्धानं तदेतदनैकान्तिकम्; यतः क्षणिकेष्वपि भावेषु भ्रान्तादेककर्तृत्वाभिमानतः प्रतिसन्धानसम्भवात्। तस्मादेवम्भूतात् प्रतिसन्धानान्न युक्ता वस्तुव्यवस्था।
कथं पुनर्भवतः क्षणाः प्रतिसन्धाननिमित्ततामुपगच्छन्ति? इत्याह
... सामर्थ्यभेदाद् भिन्नोऽपि भवत्येकनिबन्धनम्॥१९६॥
सामर्थ्यभेदात् सामर्थ्यविशेषात्। अनेकोऽप्यर्थ एकाकारपरामर्शादिकार्यस्यैकस्य निबन्धनम्-कारणम्, यथा-गुडूच्यादयो ज्वरादिशमना इति पश्चाद्विस्तरेण प्रतिपादयिष्यति ॥१९५-१९६॥
अथ भ्रान्तत्वमेव कथमस्य निश्चितम् ? इत्याह. एकानुगामिकार्यत्वे पौर्वापर्यं विरुध्यते।
रूपशब्दादिचित्तानां शक्तकारणसन्निधेः ॥ १९७॥ यदि ह्येकस्य पूर्वोत्तरकालानुयायिन आत्मादेर्नित्यस्य कार्यत्वमेषां नीलादिप्रत्ययानां १. सर्वेषु-पा०, गा०। . .. २. ०दिभासत:-पा०, गा० । ३. सनिधि:-जै०।