________________
७८
तत्त्वसंग्रहे न निश्चितः। उत्तरोत्तरज्ञानानुभवे चानवस्था। न ह्यव्यक्तव्यक्तिको विषयः सिध्येत्। ततश्चैकविषयसिद्ध्यर्थं ज्ञानपरम्परामनुसरत: सकलमेव पुरुषायुषमुपयुज्येत । अथापि किं' 'विज्ञानमनवस्थाभयात् स्वसंविदितरूपमेवोत्पद्यत इति? यथा तेनैवोदयव्ययधर्मकत्वादीनां हेतूनामनैकान्तिकता, तद्वदेवान्येषामपि ज्ञानानां स्वसंवेदत्वाभ्युपगमे कः प्रद्वेषः ! अथ तदसंविदितरूपमेवेष्यते? एवमपि तदसिद्धौ सर्वेषां पूर्वज्ञानानामप्रसिद्धिः; अनभिव्यक्तव्यक्तित्वात् । ततश्च विषयोऽपि न प्रसिध्येत्।
येषां तु विज्ञानवादिनांमतम्- 'सर्वमेव ज्ञानं ग्राह्याग्राहकवैधुर्यात् स्वयमेव प्रकाशते, न तु ज्ञानानन्तरेण वेद्यते' इति, तान् प्रति साध्यविकलता दोषोऽकम्प्य एव। एवमन्येष्वपि कारणायत्तजन्मवत्त्वादिषु साधनेषु सिद्धसाध्यतादिदोषा वाच्याः । यच्चापि सदादि' इत्यादि [G.84] धर्मिविशेषणं कृतम्, तत्पूर्ववदनर्थकम्, न ह्यस्य प्रस्तुतसाध्यसिद्धावङ्गभावोऽस्ति। तथा हि-एतावता किं न गतम् 'मदीयाः प्रत्यक्षादिप्रत्यया मदीयशरीरादिव्यतिरिक्तसंवेदकसंवेद्याः' इति प्रत्यक्षानुमानादिप्रविभागेणापि धर्मिप्रभेदोऽनर्थक एवं; मदीयाः प्रत्ययाः' इत्येतावतैव गतत्वात्। न चापि प्रतिवादिनो यथोक्तविशेषणविशिष्ट्रो धर्मी सिद्ध इत्याश्रयासिद्धता च हेतूनाम् । अथापि विफलं विशेषणमुपादाय तत्साधनार्थमन्यदेव साधनमुच्यते? तथा सति प्रकृतादादप्रकृतसम्बद्धार्थमर्थान्तरं निग्रहस्थानं भवेत् ॥ १९० ॥
क्वचित् समाश्रितत्वं च यदीच्छादेः प्रसाध्यते।
तत्र कारणमात्रं चेदाश्रयः , परिकल्प्यते॥१९१॥ यच्चोक्तम्- 'इच्छादयश्च' (तत्त्व० १७८) इत्यादि, तत्र यदि कारणमात्रमाश्रय इच्छादीनां साध्यते, तदा सिद्धसाध्यता। न हि निष्कारणा इच्छादयोऽस्माभिरिष्यन्ते; 'चतुर्भिश्चित्तचैत्ता हि' ( ) इति वचनात् । परिकल्प्यत इति वर्ण्यत इत्यर्थः ॥१९१ ॥
अथाधारलक्षण आश्रयः साध्यते, तदापि प्रतिज्ञार्थस्यानुमानबाधितत्वान्न तेन हेतोाप्तिः सिध्यतीति दर्शयति
इष्टसिद्धिस्तदाधारस्त्वाश्रयश्चेन् मतस्तव।
तदापि गतिशून्यस्य निष्फलाऽऽधारकल्पना॥१९२॥ तेषामिच्छादीनामाधारः तदाधारः । मूर्त्तानां हि भावानां प्रसर्पणधर्माणां स्यादध:प्रातप्रतिबन्धादाधारकल्पना। ये तु सुखादयो गतिशून्याः, तेषामध:पतनासम्भवात् किं कुर्वन्नात्मादिराधारः स्यात् ! ॥ १९२॥
ननु यथा घटादयो बदरादीनामकिञ्चित्करा अप्याधाराः, तद्वदात्मा सुखादीनामाधारो भविष्यति? इत्याह
आश्रयो बदरादीनां कुण्डादिरुपपद्यते।
गतेर्विबन्धकरणाद् विशेषोत्पादनेन वा ॥१९३॥ गतेर्विबन्धकरणादित्यक्षणिकपक्षे। विशेषोत्पादनेन वेति क्षणिकपक्षे। उपादान१-१. किंचिज्ज्ञानं०-पा०, गा०। २. तथापि- पा०, गा०।