________________
७७
आत्मपरीक्षा मदीयानि प्रज्ञानानि; मदीयप्रज्ञानत्वात्, आद्यमदीयप्रज्ञानवत्" ( )।एवं दुःखादयोऽपि पक्षीकर्तव्याः । एतच्च नित्यत्वेऽनुमानम्। तदेतद्दर्शयति
सद्योजाताद्यविज्ञानवेदकेनैव वेद्यते।
सर्वमुत्तरविज्ञानं मज्ज्ञानत्वात् तदाद्यवत्॥१८५॥ तदादयवदिति । तस्योत्तरकालभाविनो ज्ञानस्याद्यं तदाद्यम् ॥ १८५ ॥
विभुत्वसिद्धये प्रमाणयति- "अवनिजलानिलमनांसि विप्रतिपत्तिविषयभावापन्नानि दरतरवर्तीनि मदीयेनात्मना सह सम्बध्यन्ते; मूर्त्तत्ववेगवत्त्वपरत्वापरत्वमिथःसंयोगविभागवत्त्वेभ्यः, मदीयशरीरादिवत् ( ) इति। तदर्शयति
मदीयेनात्मना युक्तं दूरदेशविवर्त्यपि।
क्षित्यादिमूर्तिमत्त्वादेरस्मदीयशरीरवत्॥१८६ ॥ एवमित्यादिनोपसंहरति
एवं च सत्त्वनित्यत्वविभुत्वानां विनिश्चये। आत्मनो न निरात्मानः सर्वर्मा इति स्थितम्॥१८७॥
(उत्तरपक्षः) । तदक्रेत्यादिना प्रतिविधत्ते
तदत्र प्रथमे तावत् साधने सिद्धसाध्यता। - सर्वज्ञादिप्रवेद्यत्वं त्वज्ञानस्येष्यते यतः॥१८८॥
प्रथमे साधन इति 'ज्ञानानि च मदीयानि' (तत्त्व० १७७) इत्यादौ । तत्र [G.83] सिद्धसाध्यता भवदीयप्रत्ययानामस्माभिर्भवच्छरीरादिव्यतिरेकिणा सर्वविदा श्रावकप्रत्येक- . बुद्धस्तदन्यैश्च परचित्तवेदिभिर्वेदनाभ्युपगमात्॥ १८८॥ यश्चापि 'पुरुषान्तरप्रत्ययवत्' इति साधर्म्यदृष्टान्तः, स साध्यविकल इति दर्शयन्नाह
प्रकाशकानपेक्षं च स्वचिद्रूपं प्रजायते।
अन्यविज्ञानमप्येवं साध्यशून्यं निदर्शनम्॥१८९॥ यतः पुरुषांन्तरीयकमपि ज्ञानं प्रकाशकान्तरानपेक्षं स्वसंविद्रूपमेवोपजायते। तेन तन्वादिव्यतिरिक्तसंवेदकसंवेद्यत्वेन साध्येन शून्यमिदं निदर्शनम्॥ १८९॥
अथापि स्यात्- नान्यदीयं चित्तमात्रमुदाहरणत्वेनाभिप्रेतम्, किन्तु यस्मिन् विषये विज्ञानमागृहीततदाकारमुपजायते, तदिहोदाहरणम्? इष्टमित्याह
तदाकारोपरक्तेन यदन्येन प्रवेद्यते। - तस्योदाहरणत्वेऽपि भवेदन्येन संशयः॥१९०॥ एवमपि यत्स्वसंविद्रूपमेव ज्ञानं ज्ञानान्तरसंवेदनरहितमुत्पद्यते तेन संशयो भवेद्, अनैकान्तिको हेतुरिति यावत्। अथ तदपि स्वव्यतिरिक्तसंवेदकसंवेद्यमुदयव्ययधर्मकत्वप्रमेयत्वस्मर्यमाणत्वेभ्यो विषयवदिति मतम्? तदत्रापि साध्यविपर्यये बाधकाभावाव्यतिरेको १. निवर्त्यपि- पा०, गा०/
. २-२ भवेदतो तै०- गा० सम्पादकः। ३. स्मर्यमाणप्रमाणत्वेभ्यो-पा०, गा०।।