________________
७६
तत्त्वसंग्रहे उद्द्योतकरस्तु प्रमाणयति- "देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः; मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् । कृतसमयानामेकस्मिन् नर्तकीभ्रूक्षेपे युगपदनेकपुरुषाणां प्रत्ययवत्।" ( ) अस्यायमर्थ:- यथा किल नर्तकीभ्रूभङ्गानन्तरमस्माभिर्वस्त्राणि प्रक्षेप्तव्यानीत्येवं कृतसमयानां बहूनां नानाकर्तृका नानाभूताः प्रत्यया निमित्तस्य भ्रूभमङ्गस्यैकत्वात् 'मया दृष्टो मया दृष्टः' इति प्रतिसन्धीयन्ते, तथेहापि नानाविषयाः प्रत्यया निमित्तस्यैकत्वात् प्रतिसन्धास्यन्ते। यच्च तदेकं निमित्तं स आत्मेति । प्रतिसन्धानं पुनः 'मया दृष्टं मया श्रुतम्' इत्येवमादीनां प्रत्ययानामेकज्ञातृनिमित्तत्वेन घटनम्। नर्तकीभ्रूक्षेपे तु प्रत्ययानामेकविषयत्वापादनम्। सर्वथा प्रतिसन्धानमुच्यते यदेकमर्थं निमित्तीकृत्य प्रत्ययानां सम्बन्धनम्। तदेतत्प्रमाणं दर्शयन्नाह
रूपादिप्रत्ययाः सर्वेऽप्येकानेकनिमित्तकाः। .. मयेति प्रत्ययेनैषां प्रतिसन्धानभावतः॥१८॥ नर्तकीभ्रूलताभने बहूनां प्रत्यया इव। . .
अन्यथा प्रतिसन्धानं न जायेतानिबन्धनम्॥१८१॥ सुबोधम् ॥ १८०-१८१॥
अयमपरस्तदीयः प्रयोगः- "आत्मेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासङ्घातव्यतिरिक्तवचनम् प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात्, घटादिशब्दवत्"। तदाह
बुद्धीन्द्रियादिसङ्घातव्यतिरिक्ताभिधायकम्। आत्मेति वचनं यस्मादिदमेकपदं मतम्॥ १८२॥ सिद्धपर्यायभिन्नत्वे यच्चैवं परिनिश्चितम्।
यथानिर्दिष्टधर्मेण तद्युक्तं 'घटशब्दवत्॥१८३॥ सिद्धपर्यायभिन्नत्वइति। बुद्धीन्द्रियादीनां ये सिद्धाः पर्याया धीप्रभृतयस्तेभ्यो [G.82] भिन्नत्वे सतीत्यर्थः । यच्चैवं परिनिश्चितमिति । सिद्धपर्यायभिन्नत्वे सत्येकपदत्वेन । यथानिर्दिष्ट धर्मेणेति । बुद्ध्यादिव्यतिरिक्तार्थाभिधायित्वेन ॥ १८२-१८३॥
पुनः स एव व्यतिरेकिणं हेतुमात्मसिद्धये प्रयुक्तवान्– “नेदं निरात्मकं जीवच्छरीरम्; अप्राणादिमत्त्वप्रसङ्गाद्, घटादिवत्" ( ) इति। तदर्शयति
प्राणादिभिर्वियुक्तश्च जीवद्देहो भवेदयम्।
नैरात्म्याद् घटवत्तस्मान्नैवास्त्यस्य निरात्मता॥१८४॥ अस्य निरात्मतेत । जीवद्देहस्य । यद्वा- अस्यात्मनो निरात्मता=निःस्वभावता नास्ति, अपि तु सत्त्वं सिद्धमित्यर्थः ॥ १८४॥
___ अथ नित्यत्वविभुत्वे कथमस्य प्रतिपत्तव्ये इति?- अत्रा विद्धकर्णस्तावत् प्रमाणयति- "मातुरुदरनिष्क्रमणोत्तरकालं पदीयाद्यप्रज्ञानसंवेदकसंवेद्यान्यतत्कालानि १. पटशब्दवत्- पा०, गा० ।
२. उद्द्योतकर इत्यर्थः।