________________
आत्मपरीक्षा
*तत्र शरीरेन्द्रियैः संयोगलक्षणस्तस्य सम्बन्धः, बुद्धिवेदनाभिस्तु समवायलक्षणः। कथं श्रोत्रेण संयोगः? तत्रापि संयुक्तसंयोगोऽस्ति, आत्मना हि संयुक्ता तदीया दृष्टाभिसंस्कृता कर्णशष्कुली, तया च संयुक्तमाकाशत्मकं श्रोत्रम्।
प्रागात्तीभिः शरीरेन्द्रियबुद्धिवेदनाभिर्वियोग:-मरणमस्य गीयते। जीवनं तु तस्य सदेहस्य यो मनसा योगो धर्माधर्मापेक्षः। हिंसा तु शरीरचक्षुरादीनां वधात् तस्यात्मनः कल्प्यते ।वर्ण्यत इत्यर्थः । तथा च सूत्रम्- "कार्याश्रयकर्तृवधाद्धिंसा" (न्या० सू० ३.१.६) इति । कार्याश्रयः शरीरम्; सुखादेः कार्यस्याश्रयत्वात्। कर्तृणि-इन्द्रियाणि; विषयोपलब्धेः कर्तृत्वात् ॥ १७१-१७६ ॥
कथं पुनरस्यात्मनोऽस्तित्वं प्रत्येतव्यमिति? अत्राविद्धकर्णस्तावत्प्रमाणयति"सदाद्यविशेषविषयाविषयज्ञेयविषया मदीयाः प्रत्यक्षानुमानोपमानशाब्द-स्मृति-प्रत्यभिज्ञानसिद्धदर्शनार्पोरेकविपर्ययाः* स्वपस्वप्नान्तिकाः प्रज्ञानविशेषा मदीयशरीरादिव्य-[G.80] तिरिक्तसंवेदकसंवेद्याः; स्वकारणायत्तजन्मवत्त्वसामान्यविशेषवत्त्वबोधात्मकत्वाशुतरविनाशित्वसंस्कारानाधायकत्वप्रत्ययत्वेभ्यः, पुरुषान्तरप्रत्ययवत्। वैधhण प्रत्यस्तमिता' घटादयः" इति। तत्र सदादयः षडविशेषाः पूर्वं व्याख्याता: । तेषां सदादीनां षण्णां विषयो द्रव्यगुणकर्माणि। अविषयः सामान्यविशेषसमवायाः। तदेतदुभयात्मकं ज्ञेयं विषयो येषांरे प्रत्यक्षादीनां ज्ञानविशेषाणां ते तथोक्ताः । प्रत्यक्षानुमानोपमानेत्यादिस्तु द्वन्द्वनिर्देशः । सिद्धदर्शनं ज्योतिःशास्त्राद्युपनिबद्धम् । तद्धि सिद्धानां दर्शनं सिद्धं वा दर्शनमिति कृत्वा सिद्धदर्शनमुच्यते। प्रातिभंतु ज्ञानमार्षम्, यथा-श्वो में भ्राता गमिष्यतीति। तद्धि प्रायेणर्षीणां भवतीति कृत्वार्षमुयते। आरेक:-संशयः। विपर्ययः विपर्यासः। प्रथमस्वप्रावस्थाभावी प्रत्ययः-स्वप्नः। तद्विषयं स्वप्रेऽपि यदपरं ज्ञानं भवति स स्वप्रान्तिकः । एत एव प्रज्ञानविशेषाः। शेषं सुबोधम्।
तदेतत् प्रमाणमर्थतो निर्दिशन्नाह
. ज्ञानानि च मदयीयानि तन्वादिव्यतिरेकिणा। .... संवेदकेन वेद्यानि प्रत्ययत्वात् तदन्यवत्॥१७७॥
तन्वादीत्यत्रादिशब्देन बुद्धीन्द्रियवेदनाः परिगृह्यन्ते। प्रत्ययात्वादित्युपलक्षणम्। तदन्येऽपि स्वकारणायत्तजन्मवत्त्वादयो ग्राह्याः ॥ १७७॥
शङ्करस्वामी पुनरन्यथा प्रमाणयति- "इच्छादयः क्वचिदाश्रिताः; वस्तुत्वे [G.81] सति कार्यत्वाद्, रूपादिवत्" इति । तद्दर्शयति
इच्छादयश्च सर्वेऽपि वचिदेते समाश्रिताः। वस्तुत्वे सति कार्यत्वाद्रूपवत् स च नः पुमान्॥१७८॥ वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान्।
हेतुमत्त्वेऽपि नाशस्य यस्मान्नवास्ति वस्तुता ॥१७९ ॥ वस्तुत्वग्रहणदित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति ॥ १७९ ॥ *-* पाठोऽयं पा०, गा० पुस्तकयोस्त्रुटितो दृश्यते। १. प्रशस्तमिता-पा० गा० । २. इहैव पूर्व ४१ तमे पृष्ठे।
३. पा०, गा० पुस्तकयोनास्ति।