________________
७. आत्मपरीक्षा १.नैयायिक-वैशेषिकपरिकल्पितात्मपरीक्षा आत्मव्यापाररहितत्वं प्रतिपादयन्नाह
अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम्। स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा॥१७१॥ शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च। भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः॥१७२॥ ज्ञानयत्नादिसम्बन्धः कर्तृत्वं तस्य भण्यते। . सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता॥१७३॥ निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः। ... बुद्धिभिर्वेदनाभिश्च जन्म तस्याभिधीयते॥१७४॥. प्रागात्ताभिर्वियोगस्तु मरणं जीवनं पुनः . सदेहस्य मनोयोगो धर्माधर्माभिसत्कृतः॥१७५॥ शरीरचक्षरादीनां वधाद्धिंसाऽस्य कल्प्यते।
इत्थं नित्येऽपि पुंस्येषा प्रक्रिया विमलेक्ष्यते॥१७६॥ ते हि शरीरेन्द्रियबुद्धिव्यतिरिक्तमात्माख्यं द्रव्यमिच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानधर्माधर्म-संस्काराणामाश्रयं समवायिकारणमचिद्रूपम्, अविनाशि, सर्वगतम्, शुभाशुभकर्मभेदानां कर्तृ, तत्फलस्य चेष्टानिष्टस्य भोक्त परिकल्पयन्ति; अन्यथा यदि आत्मा न भवेत्, तदा कः प्रेत्य कर्मफलानि भुञ्जीत! न ह्यन्येन कृतमन्यो भुङ्क्ते । एवं हि अकृताभ्यागमदोषः स्याद् अकर्तुरेव फलाभिसम्बन्धात्। कृतविप्रंणाशश्च; कर्तुः फलेनानभिसम्बन्धात्। न चैवमिष्यते। तस्मादवश्यं य एव कर्ता स एव भोक्ताऽङ्गीकर्तव्य इति। तेन योऽसौ कर्ता भोक्ता च स आत्मा।
__ अथ यदि चिद्रूपो न भवति, तत्कथमचेतयमानः कर्ता युज्यते? इत्याह- चेतना - योगादित्यादि। चेतनायोगादसौ चेतयते इति कृत्वा चेतनः, न पुनः स्वरूपतः; अचिद्रूपत्वात्। यथा वर्णयन्ति कापिला:- "चैतन्यं पुरुषस्य स्वं रूपम्" ( ) इति।
यदि* तर्हि नित्योऽसौ, कथं कर्ता भोक्ता च? कथं वा तस्य जन्म, मरणम्, जीवनं वा व्यवस्थाप्यते? न हि नित्यैकरूपस्य सर्वमिदं युज्यते, यथाऽऽकाशस्य? इत्याह-ज्ञानेत्यादि। ज्ञान-प्रयत्न-चिकीर्षाणां तत्रात्मनि समवायः कर्तृत्वम्, सुखादिसंवित्समवायः = भोक्तृत्वम्।
निकायेन विशिष्टाभिःशरीरबुद्धीन्द्रियवेदनाभिर पूर्वाभिरभिसम्बन्धः जन्म तस्यात्मनो गीयते । देवमनुष्यादिर्भोगनिकायः । वेदनाभिश्चेति च कारणशरीम्, इन्द्रियाणि च समुच्चीयन्ते।* १. समाश्रय:- जै।
. २-२. पाठोऽयं पा०. गा० पुस्तकयो स्ति। ** पाठोऽयं पा०, गा० पुस्तकयोस्त्रुटितो दृश्यते।