________________
पञ्जिका (सर्ग११)
५१५ ६१. अयं भ० । हे राजन् ! अयं-भरतः, भवत्कुले ज्येष्ठः-वृद्धोऽस्ति। च-पुनः,
अयं चक्री भवत्कुले-त्वदन्वयेऽस्ति । हे राजन् ? तत्-तस्माद्धेतोः त्वं एनं भरतं नम-नमस्कुरु । तव काचन त्रपा-लज्जा नास्तीति चतुर्भगोन्वयः। .
६२. एतस्मै० । हे राजन् ! के भूपा एतस्मै-भरताय, न नता:-न नमंतिस्म । कैः
भूपैः अस्य-भरतस्य, आज्ञा शिरसा न धृता-नाऽधारी । कैः भूपैः अस्यातंक:शंका, नो दधे-न ध्रियते। हि-यतः, अत्र-लोके, बलिन:-बलवंतः, जयिनःजेतारः भवंतीति चतुभंगोन्वयः ।
६३. बलं य०। हे राजन् ! सुरा:-देवा अपि, यदीयं बलं-सैन्यं पराक्रमं च,
आलोक्य-दृष्ट्वा, चकपिरे-कंपिताः । तत् अस्य राज्ञः भरतस्य, पुरस्तात्अग्रे, केऽमी मर्त्य कीटाः स्युः ? .
६४. षट्सण्डी०। हे राजन् ! षट्खंडी अस्य-त्वदग्रजस्य, पदांबुजं-चरणकमलं,
सेवते-भजते । किं कृत्वा ? किंकरीभूय-सेवकत्वमासाद्य। का कमिव ? रजनी सुधाभानु-चन्द्रमिव सेवते। किं विशिष्टं ? अमंदानन्दकन्दल-प्रचुर- . प्रमोदप्रवालं ।
६५. त्वां विना०। हे राजन् !. कोप्यत्र विश्वे-जगति, त्वां-भवंतं, विनाऽस्य ___' सार्वभौमस्य शासनभाजां न्यक्करोति-तिरस्कुरुते। हि-यतः, त्रयीतनो:
श्रीसूर्यस्य, राहोरेव पराभूति:-पराभवः, विद्यते, नान्यस्मात् । ६६. द्वात्रिंश । हे राजन् ! अस्य-भरतस्य, द्वात्रिंशन्मेदिनीपालसहस्राणि किंकराः
सन्ति। ते आत्मानं अनृणीकर्तु-ऋणरहितं विधातुं, असुभिः-प्राणैरपि रणे ईहते-वांछंति।
. . ६७. एनं स० । हे राजन् ! सहस्रशः देवाः एनं भरतं सेवंते। कथं भूताः देवाः ?
सदा-निरंतरं, बद्धांजलिपुटा:-संयोजितकरकमलाः । के कमिव ? योगिन ओंकारमिव वर्ण-अक्षरं, सेवन्ते। किं विशिष्टं ओंकारं? सर्वदं-सकलकामितकरं।
६८. सुषेणो० । हे राजन् ! अस्य-भरतस्य, सुषेणनामा सेनानी:-सैन्याधिपोऽस्ति ।
किं विशिष्ट: सेनानी: ? दुर्जयः-दुःखेन जेतुं शक्यः । पुनः किं विशिष्टः सेनानी: ? अनेकगीर्वाण:-बहुभिः सुरैः, परीत:-संयुक्तः। कैः क इव ? सद्गुणो विनीत इव ।
६६. अस्यव० । हे राजन् ! वैरिणः-शत्रवः, अस्यैव सुषेणसेनाधीशस्य, भुज