________________
पञ्जिका (सर्ग ११) ४३. मन्दरा०। केऽपि भूभृतः- राजानः, तं-बाहुबलिं, ययुः । उपमीयते-प्रत्यर्थि• वाहिनीश्वरमंथने-शत्रुसमुद्रविलोडने, मंदरा-मंदरपर्वता इव । पुनः किं
विशिष्टाः ? चंडदोर्दडा:-क्रूरभुजदंडाः एव शाखिनो येषु, ते । ४४. ये भवन्त । हे राजन् ! ये विद्याधराधीशाः, भवन्तं त्वां, अवज्ञाय-अवगण य्य,
नृपं-बाहुबलि, श्रिता:-आश्रिताः । तेऽपि विद्याधराधीशाः युधे-संग्रामाय,
प्रगुणाः-सज्जा, अभूवन्-भवंतिस्म। ४५. विद्याप० । सः अनिलवेगः विद्याधरः दुःसहो वर्त्तते । स कः ? यस्यासि:
खड्गः, गुरुवत्-गुरुरिव, वंद्यः-स्तुत्योऽस्ति । कुतः ? विद्याधरवधूवर्गवैधव्य
व्रतदानतः-नभश्चरस्त्रीसमूहपतिराहित्यदीक्षार्पणात् । ४६. बहलो० । हे राजन् ! अनिलवेगेन दोष्मता-भुजदंडशौर्यवता, बहलीनाथ
पाथोधिः-बाहुबलिरूपजलधिः सर्वथैव दुरुत्तरः-दुरवगाह्यः, पुनः भीष्म:रौद्रोस्ति । केनेव ? और्वानलेन-वडवाग्निनेव।
४७. पुनर्मा० । हे भारतभूपाल ! पुनः विद्याधरधराधवः रत्नारिनामा, तं बाहुबलि,
उपागच्छद्-आजगाम । क इव ? विधुरिव। यथा विधु:-चन्द्रः, दर्श
सूर्येन्दुसंगमे, अरुणं-अर्कमुपागच्छति । ४८. अमी वि० । अमी विरा विद्याभृतः-विद्याधराः, बहुशः बहलीशितु:-बाहुबलेः, . अभ्यर्ण-समीपं, तूर्ण-शीघ्र, आजग्मुः आगतवंतः । के कमिव ? प्रवाहा
वारिधिमिव । ४६. किराताः । हे राजन् ! किराताः-भिल्लाः, तं-भरतानुजं उपागत्य अनमन्
ववन्दिरे । किं विशिष्टाः किराताः ? पातिताः अरातीनां-वैरिणां, दुर्मदाचलाःदुरहंकाराद्रयः, तेषु दोर्द्वमाः-भुजरूपमहीरुहाः, यैः ते। उत्प्रेक्षते-देहाढ्या:
मूर्तिमन्तः, उत्साहा इव । ५०. सन्नद्ध० । हे राजन् ! तस्य-बाहुबलेः, लक्षशः सुता ईयु:-आयांतिस्म । किं
वि० ? सन्नद्धबद्धसन्नाहाः-सज्जितवर्माणः, पुनः किं विशिष्टाः ? कंठप्रापित
कार्मुकाः-ग्रीवार्पितधनुषः । उत्प्रेक्षते-मू" धनुर्वेदा इव ।। - ५१. समासी० । हे राजन् ! तदैव-तस्मिन्नेव समये, ते भटाः अदीना:-धीराः,
एनं-बाहुबलि, परिव :-वेष्टयामासुः । किं विशिष्टमेनं ? सभासीनं । पुनः किं विशिष्टं ? दुर्द्धरं-दुःसहं । कमिव ? कीनाशं यममिव । के कमिव ? किरणाः तरणि-भानुमिव।