________________
५१२
भरतबाहुबलिमहाकाव्यम्
मनः - चित्तं न्यधा - आरोपितवानसि । त्वं जयश्रीवरणे मयि विषये मानसं - चेतः, मा कृथा मा विधेहि । जयश्रीवरणे इत्यत्र निमित्तात् कर्मयोगे सप्तमी ।
३४. स्खलति । हे प्रिय ! मम रसा - रसना, तटिनीव - नदीव, स्नेहशैलेन्द्रे स्खलति । त्वया प्राणैरपि - जीवितेनापि यशश्चयं पुष्टीकर्त्तव्यं । हि यतः, यशोधनाःयशस्विनोऽपि प्रशस्याः स्युः । इति त्रिभंगोन्वयः ।
३५. त्वं दाक्षि० । हे प्रिय ! त्वं यादृक् दाक्षिण्यपरः - लज्जाशीलोसिं, तादृग् भुवस्तले नान्योऽस्ति, अत्र संग्रामे दाक्षिण्यं नाधेयं न कर्त्तव्यं । हि यतः, अस्थाने–अनास्पदे, अमृतं विषं स्यात् । इति चतुभंगोन्वयः ।
३६. वीरसू० । हे वीर ! ते तव, जननी वीरसूरस्तु, पुनः तव पिता वीरोऽस्तु । अहं त्वत्-भवतं एव, सांप्रतं - अधुना, वीरपत्नी भवित्री । इति त्रिभंगोश्वयः ।
३७. सत्वरं । हे प्रिय ! त्वं मम स्नेहात् सत्वरं ग्रामतः आगतोऽभूः । त्वया संग्रामात् त्वरा--वेगः, न कार्या । त्वं स्वामिचित्तानुगः - प्रभुमानसानुयायी, भवेः - स्याः । इति त्रिभंगोन्वयः ।
३८. मम व० । हे प्रिय ! त्वया निःशंकं - निर्भयं मम वक्षसि - हृदये यथा करजाः–नखाः, पातिताः-अपात्यंत, तथा त्वया मत्तेभकुंभेषु शराः प्रापणीया:नेतव्याः ।
1
३९. रणव्यो० । हे वीर ! परे वीराः अन्ये भटाः, तव पुरः - भवदग्रतः, तारका इव नश्यन्तु - नाशं प्राप्नुवन्तु । कथंभूतस्य तव तेजोनिधेः- बलनिघानस्य, कस्मिन् ? रणव्योम्नि- संगामरूपाकाशे, त्वत्प्रतापो वृद्धिमानस्तु |
1
४०. भटशौ० । सर्वासां नारीणां मुखभाण्डतः - आननपात्रात् । इति - पूर्वोक्तं वचः निर्ययौ - निरगच्छत् । किं विशिष्टं वचः ? भटशौर्यबृहद्भानुदीपनाय - वीरविक्रमवन्ह्य तेजनाय घृतं ।
४१. सुधाम । तदा तस्मिन् समये, सक्षणः - सोवसरः, सुधामय इव - अमृतरूप इव, आनन्दमय इव - प्रमोदरूप इव अभवत् । पुनः किं विशिष्टः ? बलिभिः युद्धाकांक्षिभिः संग्रामाभिलाषिभिः, स क्षणः सोत्सवो मतः ।
४२. दोर्दण्ड० । ये वीराः दोर्दण्डचंडिमौद्धत्याद् - भुजदंडतीक्ष्णत्वदुर्दमत्वात्, जगत्त्रयं तृणंति - तृणवदाचरंति । तदा तस्मिन् संग्रामसमये, ते पि वीराः तं - बाहुबलि, प्रययुः प्रापुः । किं विशिष्टास्ते ? यशःक्षीरार्णवाः कीर्त्तिक्षीरसमुद्राः ।