________________
पञ्जिका (सर्ग ११)
५११ २४. सुमेरु० । हे प्रियतम ! त्वं भुजवैभवैः-बाहुसामर्थ्यः, स्वामिमानसे-पत्युर्मनसि, . सुमेरुरसि । त्वं संग्रामात् तृणीभूय मम मुखं मा दर्शये:-मा दृष्टिविषयीकारयेः । २५. भटानां० । हे प्रिय ! भटाना-सैनिकानां, परवीरास्त्रैः-शत्रुसैनिकायुधैः,
जीवितान् मरणं वर-श्रेयोऽस्ति । भीरून्-कातरान् धिगस्तु । किं कुर्वतः ? साक्रोशकश्मलान्-निंदामलिनान् प्राणान्, धरत:-दधानान् ।
२६. सुरभि । हे प्रिय ! त्वं मामपि यशःकुन्दै:-कीर्तिकुन्दकुसुमैः, सुरभीकुरु ।
कथंभूतस्त्वं ? सुरभिः-वसन्तः, यतः-यस्माद्धेतोः, सर्वेऽपि मारुहाः-धवखदि
रादयः, मलये-मलयगिरौ, चंदनायंति-चंदनीभवंति इत्यर्थः । २७. यशश्च० । हे भटोत्तंस !-वीरावतंस ! रणव्योम्नि-संग्रामरूपनभसि, तव
यशश्चन्द्रोदये-कीय॒ल्लोचे, भटिमादिगुणैः-वीरत्वादितन्तुभिः स्फीते-वितती
कृते, मूनि मस्तके, परातपः-शत्रूष्मा न स्यात् । २८. उत्संग० । हे प्रिय ! जयश्रीः समरांगणे-रणप्रांगणे, ते-तव, उत्संगसंगिनी. क्रोडवर्तिनी अस्तु । बाढं-अत्यर्थं, तया-जयश्रिया सपल्यापि त्वयि सेा
ईर्ष्यावती नाहमस्मि।
२६. ज्ञातस्त्वं । हे कान्त ! त्वं सर्वदा-सर्वत्र, रतेऽपि मया करुणापरो ज्ञातः
अवसितोसि, तत्-तस्माद्धेतोः, हे वीर ! त्वया वैरिरणक्षणे-प्रत्यनीकसंग्रामावसरे, कृपा न कार्या।
.३०. मां विहा० । हे प्रिय ! त्वं प्रमना:-हृष्टमानसः सन् मां विहाय-त्यक्त्वा,
रणांगणे यथा यासि-व्रजसि, तथा भवता वीरतां हित्वा गृहे नागम्यं ।
.३१. कातर । हे प्रिय ! त्वं कातरत्वं-धैर्यराहित्यं, ममाभ्यणे-मम समीपे,
मुक्त्वा संयते-संग्रामाय, धाव-वेगेन सर। हि-यतः, पुराविदोपि-पुरातनपंडिता अपि, एवं प्राहु:-कथयंतिस्म । एवमिति किं ? स्त्रीत्वं धैर्यविलोपि-धीरतोच्छेदकं विद्यते । इति त्रिभंगोन्वयः ।
३२. युद्ध श० । हे वीर ! इति कीतिस्तवांगे चिरं-बहुकालं, ध्रुवं-नित्यं, स्थास्यति
शाश्वतीभविष्यति । इतीति किं ? कोशलाबहलीशयो:-भरतबाहुबल्योः, युद्धेऽयं शस्त्रप्रहारोऽजनि।
३३. त्वं तु । हे वीर ! त्वं अन्यस्याः कांताया: पाणिग्रहे-विवाहविधौ मद्गुणेषु