________________
५र
भरतबाहुबंलिमहाकाव्यम् १४. बहुक० । स-बाहुबलिः, सावज़-सावगणं यथा स्यात् तथा, आत्मभृत्यैः
स्वसेवकैः, यात्राभेरी, अदापयत्-दापयामास । किं विशिष्टः सः ? भटैः बहुकृत्व:बहुवेलं, प्रविज्ञप्त:-प्रसभमुक्तः, किं विशिष्टैः भटै: ? शौर्यरसार्णवै:-पराक्रमरस
समुद्रैः । १५. तदा दः । तदा-तस्मिन् समये, भंभानादान्-भेरीभांकारात्, दक्षिणदिग्नेता
यमः, चकंपे-कंपमासदत्त् । किं विशिष्टो दक्षिणदिग्नेता ? दण्डधारी-यष्टिभृत्, किमिति वितर्के, भूः-मही, सुवर्णाद्रि कंपातू-मेरोश्चलनतः न कंपते-न चलति ? चलत्येव ।
१६. भम्माया० । वाद्यमानायाः भम्भायाः ध्वनिः कृत्याय-कार्याय, सैनिकान् सज्जी
चकार। कस्या इव ? सुघोषाया इव । यथा सुघोषायाः घटाया ध्वनिः
त्रिदशान्-देवान्, कृत्याय सज्जीकरोति । १७. पञ्चबा । स रवः-भेरीभांकारः, भटानां शौर्य, जागरयामास-उन्निद्रीचकार ।
कः किमिव ? पंचबाणः-कामः, औद्धत्यं-उन्मादित्वमिव, पुनः कः किमिव ?
वल्लभः-प्रेयान्, आनन्दमिव ।। १८. सारंगा । ततः क्षणात् भंभानादः अमन्दं आनन्दं पुपोष-पुष्टीचकार, भटाना
मित्यनुवर्तनीयं । क इव ? अंभोदध्वनिरिव । यथा घननादः सारंगाणां
चातकानां, रसधरागमे-प्रावृट्काले प्रीतिं पुष्णाति । १९. अबला० । भीरवोऽपि-भयविह्वलापि, अबला:-स्त्रियः, भठानां अद्भुतं शौर्य
मुत्तेजयामासुः-तीक्ष्णीचक्रुः । किं कृत्वा ? स्वभावजं कातरत्वं विहायपरित्यज्य ।
२०. कान्त । हे कान्त ! स्वस्वामिकृत्याय-निजप्रभुकार्याय, मनागपि त्वं. मा विषीद
मा विषादं कुरु । हि-यतः, स्वर्भाणुमुखगं चन्द्रं पश्यतः तारकान् धिगस्तु । २१. नाथ ० । हे नाथ ! त्वं मां चित्ते संस्मृत्य-चिंतयित्वा, निजं मुखं मा वालये:
मा पश्चात्कुर्याः । वलमानमुखाः वीराः कदाचन न भवंति । २२. तांबूली। हे कांत ! यथा ते-तव, आस्य-मुखं अधुना तांबूलीरागसंपक्तं
नागवल्लीदलरक्तिमारक्तं भावि । तथा त्वं क्षरद्रुधिरधाराक्तं-स्रवत्शोणित
शीकराई मुखं तथेति-तद्विधं रणे दर्शये: । २३. त्वद् वि० । हे महावीर !-महाभट !, त्वविक्रान्ति:-भवदीय विक्रमत्वं,
अकीत्तिकज्जलैः-अयशोंजनैः, सुधाभित्तिरिव न म्लानीकार्या-न मलिनीकर्तव्या। किं विशिष्टा त्वविक्रान्तिः ? त्रैलोक्येऽपि विदित्वरी-विख्यातिमती।