________________
पञ्जिका (सर्ग११)
विराजत्पंडिता। सुधर्मापक्षे-विराजद्देवा । पुनः किं वि० ? गुरुमंगलधारिणी
विशालश्रेयःशालिनी । पक्षे-वाक्पतिवक्रावहा। ७. तु तं रा० । वेत्रपाणि:-द्वास्थः, द्रुतं-शीघ्र, राजानं-भरतं, आनम्यादोऽवदत् ।
हे राजन् ! त्वत्प्रेषिताश्चाराः द्वारि वारितास्तिष्ठन्ति । किं विशिष्टा:० ? एता:-आगताः।
८. एतान् । स-वेत्रपाणिः, भूपं-भरतं, तान्-हेरिकान्, अनीनयत्-प्रापयतिस्म ।
किं विशिष्टो वेत्रपाणि. ? राज्ञा-भूपेन, स्वयं-आत्मना, इति ईरित:-एवं भणितः । इतीति किं ? हे वेत्रिन् ! त्वं एतांश्चरान्, अन्हाय-झटिति, प्रवेशयप्रवेशं कारय । कः कानिव ? न्यायः श्रीविलासानिव, यथा नयो लक्ष्मीलीलाः प्रापयति । इति त्रिभंगोन्वयः ।
६. तानपृ० । माप:-राजा, तान्-चरान्, इति अपृच्छत्-एवं प्रश्नं चकार । भो
हेरिका: ! मे-प्रम, स बान्धवः-बाहुबलिः, निशुः-नमस्चिकीर्षुरस्ति । वाअथवा, किं युद्धश्रद्धापरः-संग्रामाभिलाषतत्परोस्ति, यूयं निर्णीय-निश्चयं विधाय, आख्यत-ब्रूत । इति चतुर्भगोन्वयः ;
१०. इत्या० । तेषां-चराणां, मध्ये एकः चरोऽभणत्-अब्रवीत् । किं कृत्वा ? भर्तुः
स्वामिनः, इति-पूर्वोक्तं, वचः-वचनं, आकर्ण्य-श्रुत्वा, किमुवाच ? हे राजन् ! त्वं सांप्रतं-अधुना, बन्धुसंबंध-बाहुबलिव्यतिकरं, मन्मुखात् शृणु-आकर्णय । कस्मात् ? निबंधात्-आग्रहात्।।
११. त्वदाज्ञा० । हे भूप !-भरत !, त्वदाज्ञाभ्रमरी तद्देशचंपके- बहलीदेशचंपकद्रुमे,
नास्त–नातिष्ठत् । किं विशिष्टा त्वदाज्ञाभ्रमरी ? सुमनोभिरता-देवानां मनोरमा । भ्रमरीपक्षे-सुमनस्सु-पुष्पेषु, अभिरता-आसक्ता । हि-यतः, भाविनी-भवितव्यता, गरीयसी-महत्तरा स्यात् ।
१२. स्वामिन् । हे स्वामिन् ! चरैः एष-बाहुबलिः, उन्निद्रदर्पदावाग्निः-उत्फुल्ला
हंकाररूपवनवन्हिः, चक्रे-कृतः । इतीति किं ? स्वीया-निजः, सीमवधूः बलाद्हठात, परैः-अन्यैः, कदर्थिता-पीडितास्ति ।
१३. अवाम० । ततः-तदनन्तरं, असौ-बाहुबलिः, तेषां-चराणां, वचोऽवामस्त
अवगणयतिस्म। किं विशिष्टोऽसौ ? घूर्णिताक्ष:-निद्राणलोचनः । क इव ? वारण इव । यथा गजः उन्मत्तः सन् अस्थिभुजां-सारमेयानां, रवं स्वैरं-यथेष्टं, अवमन्यते ।