________________
५०६
भरतबाहुबलिमहाकाव्यम् इत्थं श्रीकविसोमसोमकुशलाल्लब्धप्रसादस्य मेऽयोध्यातक्षशिलाधिराजचरितश्लोकप्रथा पंजिका। नैपुण्यव्यवसायिपुण्यकुशलस्यास्यारविंदोद्गता,
या तस्यामिति जायतेस्म दशमः सर्गो वनावस्थितिः । इति श्रीभरतबाहुबलिमहाकाव्ये पञ्जिकायां सचैत्योद्यानाभिगमो नाम दशमः सर्गः।
एकादशः सर्गः१. अथासौ० । अथ-अनन्तरं, असौ-भरतः, आस्थानमंदिरं तस्थौ-तिष्ठतिस्म ।
किं विशिष्टोऽसौ ? कल्पिताकल्पः-रचितवेषः । किं विशिष्टं आस्थानमंदिरं ? अनूनश्रीभरोद्दीप्रं-अधिककमलातिशयोद्दीप्रं । क इव ? वासव इव । यथा शक्रो
विमानं तिष्ठति। . २. भूपाल० । पुनः किं विशिष्टमास्थानमंदिरं ? भूपालकोटिकोटीरपद्मराग
प्रभाभरैः-राजशतसहस्रमुकुटलोहितरत्नतेजोतिशयः, रक्तांशु-शोणितकिरणं, : किमिव ? प्रभातमिव । प्रभाते रक्तांशु-रक्तादित्यं । कि कुर्वत् ? प्रादुर्भवत्
प्रगटीभवत्, तमोधकार हरत् । ३. राकामु० । पुनः किं विशिष्टं ? उदंचच्चन्द्रोदयविराजितं-उद्बध्यमानउल्लोचप्रदीपितं । किमिव ? राकामुखमिव-पूर्णमासिप्रदोषमिव । किं विशिष्टं राकामुखं ? उदगच्छद् इंदूदयशोभितं । पुनः किं विशिष्टं ? रत्नमौक्तिकनक्षत्रतारामण्डलमंडितं-वैडूर्यादिमुक्ताफलधिष्ण्यतारकसमूहराजितं । ४. चारुवा० । पुनः किं विशिष्टमास्थानमंदिरं ? चारुवारवधूधूतचामरांशुकरंबितं
कमनीयवारांगनांदोलितबालव्यजनद्युतिमिश्रितं। उपमीयते-सुधांभोधेःक्षीरसमुद्रस्य, क्षीरं-पानीयमिव । किं विशिष्ट क्षीरं ? शीतांशुकरचुम्बितं
चन्द्रकिरणसंयुक्त। ५. कुन्देन्दु० । पुनः किं विशिष्टं ? कुन्देन्दुविशदच्छत्रप्रभामंडलमंडितं-कुंदचन्द्र
निर्मलातपत्रकान्तिसमूहराजितं । पुनः किं विशिष्टं ? अद्भुतं-विस्मयकारि । किमिव ? गंगातीरमिव-सुरसरित्तटमिव । किं विशिष्टं आ० ? विलसद्ाजहंसौघ-क्रीडद्भूपालश्रेष्ठसंदोहं। गंगातीरपक्षे-मिलत्कलहंससंघातं-इति पंचानामपि वृत्तानामन्वयार्थो व्याख्यातः ।
६. आस्थानी० । भरतेशस्य-सार्वभौमस्य, आस्थानी-सभा, रेजे-शुशुभे। केव ?
सुरप्रभोः-इन्द्रस्य सुधर्मेव। किं विशिष्टा आस्थानी ? विस्फुरद्विबुधा