________________
पञ्जिका (सर्ग१०) ५६. पृच्छाप० । हे भरताधिराज !, चेत् त्वं पृच्छापरः-प्रश्नविधानतत्परोसि,
तहि त्वं सर्वां-सकलां, मत्प्रवृत्ति-मदीयां वार्ता, शृणु-आकर्णय । हि-यतः, पृच्छापराणां-प्रश्नविधायिनां, पुरतः-अग्रे, प्रणीयमानं-प्रोच्यमानं, वाक्यंवचनं, सुभगत्वं-सौभाग्यं, एति प्राप्नोति, इति त्रिभंगोन्वयः ।
५७. भूभत्सु० । हे भूभृत्सुनासीर ! हे राजेन्द्र !, तदानीं-तस्मिन् समये, नमिः
भगवत्पौत्रः, एकान्तराज्यं नरकान्तमेव-दुर्गतिनिश्चयमेव, बुबुधे-ज्ञातवान् । किं विशिष्टो नमिः ? सबन्धुः-सविनमिभ्रातृ । पुनः किं विशिष्ट: ? शूरिमवारिराशि:-शौर्यसमुद्रः । किं कृत्वा ? त्वया सम-साई, रणं-युद्धं, विधाय ।
५८. मयापि० । हे राजन् ! वयं त्रयोऽपि विरक्ता:-गार्हस्थ्यविरागवंतोऽभवाम
बभूविम । किं कृत्वा ? स्वनन्दनेषु-स्वसुतेषु राज्यं प्रतिरोप्य-निधाय, मयापि तन्मार्गः-जमिविनम्योः पंथाः, अयं, व्रतादानलक्षणः, उरीकृतः-स्वीचक्रे । कः केनेव ? तुषारभानु:-चन्द्रः चन्द्रातपेनेव ।
५९. त्रयोऽपि० । हे राजन् ! वयं त्रयोऽपि युगादिदेवं-प्रथमजिनं, लीना:
अश्लिष्याम। किं कर्तुं ? आकाशपथेन चरणकलीलां-विहारककेलिं, विधातुं-कत्तुं । किं कृत्वा ? राज्यभारसरोवरं परिहाय-त्यक्त्वा । के इव ? हंसा इव । यथा हंसाः आकाशपथेन चरणैकलीलां विधातुं लीयते ।
६०. युगादि० । हे राजन् ! एवं-अमुना प्रकारेण, वयं त्रयोऽपि व्रतं-दीक्षा आचराम
. अन्वतिष्ठाम। किं विशिष्टा वयं ? युगाक्देिवं द्रुतं-शीघ्र, एत्य-प्राप्य, 'बुद्धाः-पठितशास्त्राः । हि-यतः, जिनेन्द्रपादाः-तीर्थकृच्चरणाः, संसारतापातुरमानवानां-भवतप्तजनानां, अमृतावहाः मोक्षप्रापकाः स्युः ।
... ६१. युगादि० । हे राजन् ! वयं त्रयोऽपि अमंद-आलस्यरहितं, आमोदं, अदध्म
दध्महे । तु-पुनः, वयं त्रयोऽपि युगादिनेतुश्चरणारविन्दे-वृषभजिनपादांबुजे, अतिष्ठाम-स्थिता आस्म । किं विशिष्टा वयं ? सुनिश्चलाशा:-सुस्थिरकामाः । किं कुर्वाणाः ? म्रमरायमाणा:-षट्पदवदाचरंतः ।।
६२. अधीत्य० । हे राजन् ! वयं त्रयोऽपि श्रीजगदीश्वरेण-देवाधिदेवेन, सम-सार्द्ध,
भूमीपीठे व्यहराम-व्यचराम । किं कृत्वा ? चतुर्दशापि पूर्वाणि अधीत्यपठित्वा । पुनः किं कृत्वा ? निःशेषसिद्धान्तरसं निपीय-आस्वाद्य । किं विशिष्टा वयं ? विनीताः-विनयवन्तः ।