________________
५०४
भरतबाहुबलिमहाकाव्यम् ४६. गीर्वाण । हे मुने ! तु-पुनर्, अहं इति तीर्थनेतुः-युगादिदेवरय, गवां प्रपंच
वागविस्तरं, पिबामि-अत्यादरेण शृणोमि। इतीति किं ? गीर्वाणनाथाद्इंद्रात्, सार्वभौमात्-चक्रिणोऽपि, जगत्यां-विश्वे, मुनेः-साधोः, अभ्यधिक सुखमस्ति । कस्मात् किमिव ? इंदुबिम्बात्-चन्द्रमंडलात्, पीयूषं
अमृतमिव । ५०. इच्छामि। हे मुने ! अहं भवतोपपन्नां-त्वयादृतां, चाँ-गति, इच्छामि
वांछामि, मे-मम,कर्माणि नो शिथिलीभवंति-न श्लथीस्युः । तैः कर्मभिरेव । बद्धः-नियंत्रितः सन् जीवोऽत्र दुःखं लभते। क इव। नागराज इव । यथा .'
गजेन्द्रः पाशैर्बद्धो दुःखं लभते । इति चतुर्भगोन्वयः । ५१. यतोऽत्र० । हे मुने ! अत्र-संसारे, यतः-यस्मात्, सौख्यं तत एव दुःख
स्यात् । यतः-यस्मादत्र संसारे रागः, तत एव तापो भवति । यतः यस्माद्ः अत्र संसारे मैत्री-प्रीतिः, ततः-तस्माद् एव वैरं-विरोधो भवति । ये पुरुषाः
तत्संगिनः-रागादिप्रसंगवन्तः, न स्युः त एव धन्या:-कृतपुण्याः स्युः । . . ५२. कोपान । हे लोभमुक्त ! लौल्योज्झित !, काम-अत्यर्थ, त्वया क्षांतिजलेन
क्षमांभसा, कोपानल:-क्रोधाग्निः, निर्वापित:-विध्यापित्तः। त्वया मार्दवसिंहनादात्-मृदुताक्ष्वेडातः, मदद्विपः-अहंकारगजः, अदलि-विदारितः तु-पुनः, भवता अदंभपरश्वधेन-निर्मायकुठारेण, शाठ्यतरु:-कापट्यद्रुमः,
अदलि। ५३. अस्मादृ०। हे मुने ! संप्रति-अधुना, अस्मादृशाः-अस्मद्सदृशाः,
राज्यलीलाकूलंकषाकूलमहीरुहन्ति-राजन्यविलासनदीतीरद्रुमायते, तत्र नदीतटे, चेद्-यदि, वयं भद्रभाज:-जीवितवंतः स्मः, तर्हि वयं तातप्रसादात् शिवगाःमोक्षगामिनः, भवद्वत्-त्वद्वत्, भविष्यामः, इति त्रिभंगोन्वयः ।
५४. त्वया त० । हे मुनीश ! त्वया कस्यान्तिके-कस्य पार्वे, . तपस्या-दीक्षा,
जगृहे-गृहीता ? तव शान्तहेतु:-नवमरसनिदानं को बभूव ? ते-तव, अत्र प्रदेशे,, कुतो हेतोः आगमः-आगमनं बभूव ? त्वं ममाग्रतः-मत्पुरस्तात्, सर्वसमस्तं, आशंस-कथय, इति चतुर्भगोन्वयः ।
५५. एताव० । मुनिः एतावदुक्त्वा-इयत् कथयित्वा, क्षितीशे-भरते, विरते-निवृत्ते
सति, वाचा-भारत्या, मुखं सूत्रयतिस्म-योजयति स्म । किं कुर्वत्या ? इति वक्षमाणं निजप्रवृत्तिप्रथिमानं-स्वचरित्रगरिमाणं, उच्चैः-अत्यर्थं, उद्वहन्त्याधारयंत्या। क इव ? इंदुरिव । यथा चन्द्र: त्विषा-कान्त्या, खं-आकाशं, सूत्रयति ।