________________
पञ्जिका (सर्ग११)
शमं प्राप्ताः। तेषां पुरुषाणां मध्ये अपूर्वे सुरराजवंद्याः स्युः । अपूर्वेअप्रथमा, अत्र वृत्ते प्रथमं भोगवांछका उक्ताः, तदन्ये त्यागिनः । कैवल्यवधूःमुक्तिरामाऽपि तानेव-त्यागिनः इच्छेत् । इति चतुर्भगोन्वयः ।
४३. धिगस्तु० । हे मुने ! येषां पुरुषाणां वैराग्यलीला लीलावतीभिः स्त्रीभिः, क्षणेन
दलिता-दूरीकृता । किं कृत्वा ? मनोजन्मपिशाचसंगात्-कामप्रेतसंगमात्, मनः परिभूय-पराभवं प्राप्य, तदीयं मनो धिगस्तु। किं विशिष्टं मनः ? तृष्णातरलंलिप्साचपलं ।
४४. अंगार० । हे मुने ! त्यागी-इन्द्रियादिनिग्रहवान्, केनापि पुंसा नावमाननीय:
नावज्ञेयः, अशेषैः । तत्-तस्मात् कारणात्, अत्रभवान् श्लाघनीयः-प्रशस्यः । तत् किं ? त्वं तपसां-धर्माणां, अंगारधानी-हसन्तिका । वधूः स्त्रियः, हित्वात्यक्त्वा, तपस्वित्वं-मुनित्वं, उरीचकर्ष-अंगीकृतवानसि ।
४५. तारुण्य० । हे विद्याधरनाग !-खेचरश्रेष्ठः, ममापि हृदये किंचिद्
अनिर्वचनीयं इति चित्रं-आश्चर्य न माति । इतीति किं ? इह-अस्मिन् अवस्थांतरे सकला अपि तारुण्यलीला:-समस्ता अपि युवत्वविलासाः, भीरुलताप्रतानः-स्त्रीतंतुवितानैः, नो त्वां रुधंति न वृण्वंति-इति त्रिभंगोन्वयः।
४६. शौर्याब्जि० । हे मुने ! अत्र तारुण्येपि त्वं शौर्याब्जिनीखंडसरोवरः सन्
शक्तः-समर्थोसि। कस्मै ? कंदर्पशरापनुन्न्यै-कामबाणापनोदाय, भवान् सर्वत्र-गार्हस्थे यतित्वे, परां विभूषां-उत्कृष्टां शोभां, लभेत-प्राप्नुयात् । कः कामिव ? वासुदेवो लक्ष्मीमिव ।
. . ४७. त्वच्चित्त० । हे मुने ! शमांशुमाली-शांतरसभानुमान्, त्वच्चित्तवृत्तिप्रथमा
द्रिचूलां-भवदीयमनप्रवृत्तिपूर्वाचलचूलिका, उपेत्य-आगत्य, समुदेति-उदयं प्राप्नोति । ततः-तदनंतरं, अस्मदीयं हृदयारविन्दं-अस्मन्मनःकमलं, विलोकनेन-दर्शनेन, विकासितां-विकस्वरतां, एति-प्राप्नोति ।
४८.
त्वमेव० । हे साधो ! त्वमेव शश्वद्-अनिशं, स्त्रणे-स्त्रीणां समूहे, तृणेनडादी, साम्यं-सादृश्यं, उपषि-लभसे । किं विशिष्टस्त्वं ? समलोष्टरत्न:सदशपाषाणमणिः । तत्-तस्माद्धेतोः, सिद्धिवध्वां-मुक्तिनार्यां, भवतः-तव, अभिलाषः अस्मिन् भवे-जन्मनि, अचिराद्-तत्कालतः, संसिद्धि एष्यतिप्राप्स्यति ।