________________
५०२
भरतबाहुबलिमहाकाव्यम् ३६. नत्वाऽथ० । अथ-अनन्तरं, भूपो भरतः, साधु-मुनि, नत्वा-नमस्कृत्य,
पुरोधरोत्संग-मुनेरने धरापीठे यथा स्यात् तथा निषसाद-तिष्ठतिस्म । कि विशिष्टो भूपः ? अनूनभक्तिः-अहीनश्रद्धः, इह-अस्मिन् लोके, संतः-महान्तः, प्रभुत्वाद्-आधिपत्याद्, औचिताधानविचक्षणत्वं-योग्यताकरणचातुर्य, न विस्मरन्ति ।
३७. प्रज्ञाव० । चक्री भरतः, तं-मुनि, ऊचे-उक्तवान् । कथं भूतः चक्री ? .
प्रज्ञावतां-मतिमतां, प्राग्रहरः श्रेष्ठः । किं कृत्वा ? पुरावलोकात्-पूर्वनिभाल-.. नात्, उपलक्ष्य-ज्ञात्वा। हि-यतः, मनस्विनः-मेधाविनः, दृष्ट-आलोकितं . श्रुतं-आकणितं, वस्तु न विस्मरन्ति । किं विशिष्टाः मनस्विनः ? सर्वविदां तुल्याः-सर्वज्ञकल्पाः।
३८. दृष्टः पु० । हे विद्याधराधीश ! मया त्वं नमेर्महीपतेरनीके-कटके, पुरावलो
कितः। कस्मिन् ? विजयार्द्धशैले-वैताढ्यगिरौ, मम भटा:-वीरा, त्वद्भुज-. चंडिमान-भवद्दोदंडचंडतां, संस्मृत्य-स्मृतेविषयतामानीय, अद्यापि शिर: मूनिं, धुनंति-कंपयंति।
३६. असौ त्व० । हे विद्याधरराजर्षे ! त्वदीयौ अंसी विजयप्रशस्तेः स्तंभावभूतां
बभूवतुः । क्व ? भरतार्धशैले-वैताढ्ये। किं विशिष्टौ अंसौ ? सर्वत्रसमस्तदेशेषु, विद्याधरराजलक्ष्मीकरेणुकासंयमनाय-विद्याभृत्भूपश्रीद्विरदवधूबंधनाय, सज्जौ।
४०. युवासि० । हे विद्याधरमेदिनीश:-हे खेचरंराज !, त्वं युवासि-तरुणोसि । ते
तव, कुतः-कारणात्, वैराग्यरंगः समभूत्-संजातः । हि-यतः, रसाधिराजपारदं, विना कुतः अर्जुनस्य-स्वर्णस्य, सिद्धिर्भविष्यति-भवित्री। किं विशिष्टा सिद्धिः ? अनघा-निर्मला इति त्रिभंगोन्वयः।
४१. विद्याभृ० । विद्याभृतामीश !, अहं ते-तव, किं वदामि-कथयामि । त्वयैव
भवतव, स्वजन्मनः फलं, प्रापि-लब्धं । अत्र तारुण्ये मादृशैः,-मत्सदृशैः, हदा-मनसाऽपि, यद् अवाह्य-न वोढं शक्यं । कैरिव ? स्थलैरिव । यथा स्थलैःमरुभिः, अंभः-पानी, न वाह्यते-न धार्यते । केन कृत्वा ? सरसीवरेण-तटाकेन । इति चतुर्भगोन्वयः ।
४२. केपीह० । हे मुने ! केपि जनाः, इह-अस्मिन् लोके, असत:-अविद्यमानान्
भोगान्, कमंते-वांछंति । केचित् सतोऽपि भोगान्, परिहाय-परित्यज्य, शान्ताः