________________
पञ्जिका (सर्ग १०)
४६६
१७. न चाति० । भरताधिराजः पाणी-हस्ती, संयोज्य-योजयित्वा, इति वक्ष्यमाणः,
पदैः-विभक्त्यन्तैः, तीर्थेशं-युगादिदेवं, तुष्टाव-स्तौतिस्म । किं विशिष्टो भरताधिराजः ? न चातिदूरान्तिकसन्निषण्णः-न दविष्ठनेदिष्ठतया स्थितः, जिनावग्रहप्रमाणस्थित्यवासीनः । किं विशिष्ट: ? ताररावः-उच्चस्वरः, किं विशिष्ट: पदैः ? अनेक:-बहुभिः, पुनः किं विशिष्ट: ? प्रतीतैः-प्रतीतिमभिः ।
१८. भवं ति० । भरतः तीर्थशस्तुतिपदान्येवमाह । हे त्रिविश्वाय॑ पदारविन्द !
त्रैलोक्यपूज्यचरणकमल ! त्वमेव भविन:-भव्यस्य, आधार:-आलंबनमसि । किं चिकीर्षोः ? भवं-संसारं, तितीर्णो:-तरीतुमिच्छोः । त्वमेव तमस:पापात्, त्रिलोकीं पाता-रक्षिता । च-पुनः, भवतः-त्वद्, अन्यो न सृष्टेविधाताकर्ता कश्चिदस्ति ।
१६. त्वमेव० । हे जिनेन्द्र ! त्वमेव संसारदवाग्निदाहप्रशान्तये-भवदावानलताप
प्रशमनाय, वारिदवारिधारासि । त्वमेव अघांबुराशेः-पापपयोधेः, शोषकदक्षत्वविधेः-संशोषणाद् विनीयपांडित्यविधानात्, पीताब्धिः-अगस्त्योऽसि ।
२०. त्वमेव० । हे लसत्प्रताप !-विलसत्तेजः !, त्वमेव नैयायिकवाकप्रपंच:
तार्किकवचन विस्तारैः, प्रमेयोऽसि-प्रमितिविषया.ऽसि । किं विशिष्टः त्वं ? विभुः-सामर्थ्यवान् वा सर्वव्यापी। हे वेदान्तसिद्धान्तमताभितळ !, हि- निश्चितं, शिवसंपद:-महानन्दलक्ष्म्याः , भोक्ता-अनुभविता, त्वमेवासि ।
२१. त्वमेव० । हे जगदीश !, हे तात !, भवदुःखराशेः-संसारदुःखौघात्, मोक्ता
मोक्षयिता, त्वमेवासि । कलिवारिराशि-विवादांभोधिं, त्वमेव तीर्णोऽसि । तमोहरत्वात्-दुरितध्वांतक्षयकारित्वात्, चन्द्रः प्रल्हादकारी त्वमेवासि । तरणिः-सूर्यः, त्वमेवासि ।
२२. दुरुत्त। हे युगादिदेव !, त्वयैव-भवतैव, कृत्वाऽस्माभिः, भववारिनाथ:
संसारांभोधिरयं तार्यः । किं विशिष्टो भववारिनाथः ? कषाया:-क्रोधादयः तद्रूपा मीनाः-मत्स्यादयः, तैः सह वर्तमानः, सः । पुनः किं विशिष्ट: ? मनोभवोल्लोलभरातिभीष्मः-कामकल्लोलातिशयातिदारुणः, केनेव ? वोहित्थकेनेव-यानपात्रेणेव । पुनः किं विशिष्टः ? दुरुत्तरः-दुरवगाहनीयः ।
२३. स्तुत्वा० । भूपः-भरतः, अमन्दं-अतुलं, आमोद-हर्ष, उवाह-वहतिस्म । किं
कृत्वा ? युगादिदेवं स्तुत्वा नत्वा, द्वौ चकारी तुल्यकालं द्योतयतः । कः कमिव ? प्रदोषः-संध्यासमयः, पीयूषधामानं-चंद्र, इव यथा वहति । किं विशिष्टं