________________
४७०
भरतबाहुबलिमहाकाव्यम्
६५. आददे० । हे प्रिये ! त्वया मे-मम, हृदयं-अन्तःकरणं, एवाददे-जगृहे, तत्
हृदयं इतरा-अन्या, वसितुं-आच्छादयितुं, अत्र युवतिविषये न क्षमा-न समर्था स्यात् । वसितुमित्यत्र 'वसिक् आच्छादने' धातु न तु वसन्निवासे । विलासिना अंह अंह इति वादिनी-ब्रुवाणा, सरभसं यथा स्यात् तथा
वधूश्चुंबिता-चुचुंबे । इति त्रिभंगोन्वयः । ६६. चन्द्रमा० । महीपतिः-भरतः, चन्द्रमा इव व्यभाद्-दिदीपे। अंगना:-स्त्रियः,
चन्द्रिका इव व्यभुः। किं विशिष्टाः ? तं राजानं अनुगच्छंतीति तदनुगाः। तदा-तस्मिन् वनविहारसमये, चित्तभूप्रमदपाथसां पतिः-मानसोत्पन्नहर्षाब्धिः,
परस्परं-अन्योन्यं, उल्ललास-उत्कल्लोली बभूवेति त्रिभंगोन्वयः । ६७. पंचव० । स युवा पंचवर्णमयपुष्पभंगियुक्तालवृन्तवरवीजनेन-पंचवर्णाढ्यकुसुम
रचनायुतव्यजनविघूननेन चामरादप्यधिकं सुखमन्वभूत-बुभुजे । किं विशिष्टेन? प्रणयिनीनां करैः-हस्तैः, ईर्यते-प्रणुद्यते, तत्, तेन।
६८. सर्वजा० । काचिद् वधूरस्य भरतस्य शिरसि-मौलौ, छत्रं व्यधात् । कि
विशिष्टं छत्रं ? सर्वजातिकुसुमश्रियांचितं--व्याप्तं, किं कुर्वती ? राजचिन्हैललित-मनोज्ञं, यदातपत्रं ततोधिकं मुदां भरं-प्रमोदातिशयं, प्रणुदतीप्रेरयंती।
६६. प्रस्थितो० । अथ-अनंतरं, नृपः-भरतः, जलकेलये-जलावगाहाय, केलिपल्वलं
क्रीडासरं, प्रस्थितः-प्रयातवान्, ततः-तदनंतरं, . सावरोधवनिताजन:सशुद्धांतस्त्रीलोकः, पयःक्रीडार्थं क्रीडासरः प्रययौ। किं विशिष्टं केलिपल्वलं ? फुल्लपंकजदलाननश्रियं-विकस्वरांभोजपत्रवदनच्छायं, क इव ? राजहंस इव ।
७०. पद्मिनी० । किं कुर्वाणं केलिपल्वलं ? भूमिवल्लभं-राजानं, स्पर्द्धमानमिव
सदशीभवंतमिव । किं विशिष्टं केलि. ? पद्मिनीनिचयेन-कमलिनीसमूहेन, संचितः-पुष्टीभूतः, उत्सवो यत्र, असौ, तं। राजपक्षे-पद्मिनी प्रथमजातीयनायिका । पुनः किं विशिष्टं केलिपल्वलं ? राजहंसः-सितच्छदैः, विनिषेवितंपर्यपासितं, अंतिक-पावं, यस्य, असौ, तं। भूमिवल्लभपक्षे-राजहंसाःभूपश्रेष्ठाः । पुन: किं विशिष्टं० ? यद् वेगाद् ऊर्मय:-कल्लोला: त एव पाणयः-हस्ताः, तैमिलनोत्सुकं ।
७१. आगतो० । आगतोद्गतसरोजिनिचयैः-आयातोत्पन्नपद्मिनीसमूहैः, सर:
तटाकः, बभौ-रराज। किं विशिष्टैः ? मेखलारणितमेव-कांचीशब्दितमेव, भृगकूजितं-भ्रमररुतं, येषु, ते तैः, पुनः किं विशिष्ट: ? चक्रा:-चवकाः,