________________
૪૬૨
नारीभिः पत्युः अनुनयः - रोषोपशान्तिः, विधीयते - क्रियते । हि-निश्चितं, साहसस्य का गतिर्भविता - भविष्यति । इति त्रिभंगोन्वयः ।
पञ्जिका (सर्ग ७)
५६. पादयोः ० । हे सखि ! स - विलासी, मे - मम, पादयोः, निपतिता - निपतिष्यति, अहमपि नानुनयं समाश्रये - न रोषोपशान्ति कुर्वे । अनन्यजः - कामोपि, अधिज्यधनुः - अधिज्यचापः, एतु - आगच्छतु । हि यतो, योषितां - रमणीनां, . धीरता - प्रागल्भ्यं, सहचरी स्यात् । इति चतुभंगोन्वयः ।
६०. इत्युदी० । दूतिस्तां नायिकामित्युदीरितवतीं - इत्थं कथितवतीमुवाच । किं विशिष्टां तां ? अस्खलितवाक्परंपरां - स्पष्टवचनरचनां । हे सखि ? त्वया जीवितेन प्राणैः सह विग्रहः - कलहः, आरभ्यते - क्रियते, यद् - यस्माद्धेतोः, प्रियः - भर्त्ता, अवगण्यते-अवज्ञायते । इति त्रिभंगोन्वयः ।
६१. कि न वेत्सि० । हे मानिनि ! त्वं किं न वेत्सि - न जानासि ? विधु: - चन्द्रः, अभ्युदेष्यति - उदयं प्राप्स्यति । किं विशिष्टो विधु: ? प्रीतिवल्ल्याः परिवृद्धि: - परिवर्धनं, तस्या मंडपः । पुनः किं विशिष्टः ? मानिनीनां हृदयं मनः, तत्र यो मानसंग्रहग्रन्थिस्तस्य मोक्षणे परिस्फुरंतः - प्रकटीभवंतः, करा:-किरणाः, यस्य, असौ ।
६२. प्रेतभूः । हे मानिनि ! त्वं हृदिश्वरे अवशे सति इति वैपरीत्यं - विपर्यय, अवेहि - जानीहि । इतीति किं ? प्रमदकाननं - आरामः, ते-तव, प्रेतभूःश्मशानं, रतिपतेः– कामस्य, कौसुमाः शराः - पौष्पाः बाणाः, अयोमयाःलोहरूपाः, भवति, चन्द्रमास्तरणिः सूर्यः, तापकारित्वात् ।
६३. मौनमे० । अथ - अनंतरं, प्रणयिना - भर्त्रा, मानिनी - प्रिया, शिश्लिषे परिरेभे । किं कृत्वा ? तावत् सहसा - तत्कालं, लतांतरादेत्य - आगत्य । किं कृतवती ? अनया - दूत्या, एवं उदीरितात् - भणितात्, मौनं यावदाश्रितवती । किं विशिष्टा अधोमुखी - न्यग्वदना ।
६४. सर्वदे० । नायिको नायिकां प्रत्याह । हे भामिनि ! त्वं सर्वदैव सदैव, चतुरानिपुणासि, कस्मिन्ं ? प्रीणने - संतोषणे । ईदृशो वनविहारः - एतादृशी वनक्रीडा, अतिदुर्लभः - अतिदुरापः । क इव ? लय इव यथा गीतिनृत्यवाद्यत्रयी विलासोऽतिदुर्लभः । किं विशिष्टो वनविहारः ? द्रवेण-परिहासेन सह वर्त्तमान इति सद्रवः, लयपक्षे - प्रशस्तरवः । हे प्रिये ! त्वं कोपमानसमय - क्रोधाहंकारावसरं किं न वेत्सि । इति चतुर्भंगोन्वयः ।