________________
भरतबाहुबंलिमहाकाव्यम्
त्वदंतिक-भवत्याः पावं, संगतास्मि-संप्राप्तास्मि । तत्-तस्माद्धेतोः, मम त्वं गिरं प्रत्युत्तरलक्षणं देहि । किं विशिष्टा सा ? कोपभंग्या-रोषरचनया, परित्तिते ईक्षणे-लोचने, यया, सा।
५२. दूति ! स० । हे दूति ! त्वया वचः सत्यं यथातथं, उदितं-कथितं, अहं अस्य
विलासिनः, हृत्-हृदयं, प्रवेष्टु-प्रवेशं कर्तु, न विभुः-न समर्था । यतोऽस्य प्रीतिः-प्रणयः, शतधा-शतप्रकारेण, विभज्यते-वंटीक्रियते । किं विशिष्टं हृत् ? वणिनीशतसमाकुलं-स्त्रीशतसमाकुलं इति त्रिभंगोन्वयः ।
५३. का सुधा० । हि-निश्चयेन, मृगदृशां-स्त्रीणां, का सुधा-किममृतं ? प्रीति
तत्परमना- स्नेहासक्तचित्तः, वल्लभः-प्रियः, यदि भवेत्, इति कृत्वा सूरयः-' विबुधाः योषितां जीवितं-स्त्रीणामायुः, प्राणनाथकरगामि-भर्तृहस्तगं, वदंति
ब्रुवन्ति । इति त्रिभंगोन्वयः । ५४. पूर्वमे० । हे सखि ! विलासिना पूर्वमेव-प्रागेव, मे-मम हृदयं-मनो गृहीतं.
जगृहे। अथाह किं करोमि । च-पुनः, मया तन्मनो-नेतुश्चित्तं, नाददे-न गृहीतं । पुनः स युवा विज्ञ एवास्ति । अहं नेदृशी-नवंविधास्मि । इति पंचभंगोन्वयः ।
५५. योषिता । हे सखि ! हि-निश्चितं, नायक:-नेता, योषितां मानसात्
स्त्रीणां चित्तात्, नावतरेत्-नोत्तरति, किं विशिष्टो नायकः ? प्रीतिपूर्णहृदयःप्रणयांचितमनाः। कस्मात् क इव ? पद्मिनीवनात् , राजहंस इव। किं विशिष्ट: ? शुद्धपक्षयुगलप्रतीतिभाक्-निर्मलपिच्छद्वितयप्रत्ययं भजतीति । नायकपक्षे-पक्षयुगल-मातापित्रोः । सस्यर० । अमी विषया:-पदार्थाः, पुराणतां-जीर्णतां, संश्रयंति । किं विशिष्टा विषयाः ? सस्यरत्नवसनादयः-धान्यमणिवस्त्रप्रमुखाः, कुत्रचित्-कुत्रापि स्थाने, युवद्वयीप्रीतिरीतिनिचयः-युवयुवतियुगलप्रणयस्वभावसमुदयः पुराणतां नाश्रयति ।
किं विशिष्ट: ? एक एव-अद्वितीयः । पुनः किं विशिष्ट: ? निबिड:-दृढः । ५७. विस्मर० । दयिता:-स्त्रियः, वल्लभं न विस्मरंति, यद्-यस्माद्धेतोः, जीवितात्
प्रियः अधिक एव स्यात् । अत्र एवास्मिन् समये, मृगीदृशः-स्त्रियः, जीवितं तृणवत् मन्वते-गणयंति । किं विशिष्टा: मृगीदृशः ? तद्वियोगविधुरा:प्रणयिविरहकातराः ।
५८. प्राणना० । हे सखि !, स्त्रियः-नार्यः, प्राणनाथविरहासहा:-भर्तुवियोगाऽक्षमाः,
जातवेदसं-वह्निमुपासतेतरां-सुतरां सेवन्ते । अग्नौ प्रविशंति इत्यर्थः । ताभि: