________________
पञ्जिका (सर्ग७)
४६७ पुष्परेणुपरिपाण्डुरा-कुसुमपरागविशदा । कया इव ? विद्युता-तडिता, शारदोदकमुचां-शारदाभ्राणामवलि:-श्रोणिरिव।।
४५. स्वेदलु० । स-भरतः, प्रियानने-वल्लभामुखे, वदनानिलं व्यधत्त-निमिमीतेस्म ।
किं विशिष्टे प्रियानने ? स्वेदेन लुप्तं-परिमृष्ट, तिलकं यत्र, तत्, तस्मिन् । पुनः किं विशिष्टे प्रियानने ? पुष्पधूल्या-परागेण, परिधूसरा-ईषत्पांडुः, त्विड्-कांतिः, यत्र । उत्प्रेक्षते-मनीषितां धृति-हदयेप्सिततुष्टि, जीवयन्निवप्राणयन्निव ।
४६. इत्यमू० । तत्सखी अमू-नायिकां कथयतिस्म। इतीति किं ? हे मानिनि !
तत् त्वदीयसुभगत्वं-भवदीयमेव सौभाग्यं अस्ति । तत् किं यत् रंभयापि कमनीयं-अभिलषणीयं । अनया-भवत्या, ईदृशो वल्लभः किं वशीकृत:-कथं वशीचक्र । इति चतुर्भगोन्वयः ।
४७. गोत्रवि० । कापि' कान्ता तं-विलासिनं, गोत्रविस्खलितं एवमभ्यधात्
कथयतिस्म । एवमिति किं ? हे प्रिय ! एकपक्षतः प्रणयः-प्रीतिः, तयाकुलंमदन्यया व्याप्तं, हृदयं-मनः, न प्रयाति-न गच्छंति । यन्मानसे-चेतसि भवेत्, तन्मुखेऽतीव स्यात् ।
४८. इत्युदी० । सा इत्युदीर्य-कथयित्वा, तदंतिकात्-तस्य पार्वात्, सहसा
शीघ्रमेव, निर्जगाम-निर्गता । किं विशिष्टा सा ? पतदश्रु लोचना । पुनः किं • विशिष्टा सा ? धरान्तरं वसुधामध्यं, संप्रवेष्टुं न्यग्मुखी । पुनः किं विशिष्टा?
क्वचित्-प्रदेशे, लतांतरं इता-प्राप्ता ।
४६. वच्मि । हे देवि ! अहं वच्मि-कथयामि, भवती किं चकार । हि-निश्चितं,
प्रियतमे-भर्तरि, रागिणि-रागवति सति क्रधा-कोपेन किं । हे सखि ! त्वं तस्य चेतसः अधिदेवताऽसि । कस्य केव ? जलरुहः-कमलस्य श्री:-लक्ष्मीरिव, अन्यया-अपरया किं ? .
५०. त्ववि० । हे देवि ! त्वद्वियोगविधुर:-भवद्वियोगकातरः सन् स युवा
परिजनस्य-परिवारस्य, जीविते-प्राणेषु, संशयं-संदेह, कल्पते-रचयति । तत्तस्माद्धेतोः, तव-भवत्याः, रंगभंग: उचितत्वं-योग्यतां, नांचति-नागच्छति । कस्मिन् सति ? महविधौ-उत्सवविधाने प्रस्तुते-प्रारब्धे सति ।
५१. तन्नियो। अथ-अनंतरं सा-इतिवादिनी-एवमभिधात्री, दूति जगौ
अवादीत् । इतीति किं ? तस्य-विलासिन, नियोगवशतः-आवशतः, अहं